मुख्य सामग्री पर जाएँ
‹ स्तोत्र

अन्ययोगव्यवच्छेदिका (महावीर-स्तोत्रम्‌)

आचार्य हेमचन्द्र

1

अनन्तविज्ञान-मतीतदोष— मबाध्यसिद्धान्तममर्त्यपूज्यम्‌। श्री वर्द्धमानं जिनमाप्तमुख्यं, स्वयंभुवं स्तोतुमहं यतिष्ये।।

2

अयं जनो नाथ! तब स्तवाय, गुणान्तरेभ्य: स्पृहयालुरेव। विगाहतां किन्तु यथार्थवाद— मेकं परीक्षाविधिदुर्विदग्ध:।।

3

गुणेष्वसूयां दधत: परेऽमी— मा शिश्रियन्नाम भवन्तमीशम्‌।, तथापि सम्मील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम्‌।।

4

स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपा:। परात्मतत्त्वादतथाऽऽत्मतत्त्वाद्‌ द्वयं वदन्तोऽकुशला: स्खलन्ति।।

5

आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्रानतिभेदि वस्तु। तन्नित्य:त्रैकमनित्यमन्य— दिति त्वदाज्ञाद्विषतां प्रलापा:।।

6

कर्त्ताउस्ति कश्‍चिज्जगत: स चैक:, स सर्वग: स स्ववश: स नित्य:। इमा: कुहेवाकविडम्बना: स्यु: स्तेषां न येषामनुशासकस्त्वम्‌।।

7

न धर्मधर्मित्वमतीवभेदे, वृत्याऽस्ति चेन्न त्रितयं चकास्ति। इहेदमित्यस्ति मतिश्‍च वृत्तौ, न गौणभेदोऽपि च लोकबाध:।।

8

सतामपि स्यात्‌ क्‍वचिदेव सत्ता, चैतन्यमौपाधिकमात्मनोऽन्यत्‌। न संविदानन्दमयी च मुक्ति:, सुसूत्रमासूत्रितमत्वदीयै:।।

9

यत्रैव यो दुष्टगुण: स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत्‌ तथाऽपि देहाद्‌ बहिरात्मतत्त्व— मतत्त्ववादोपहता: पठन्ति।।

10

स्वयं विवादग्रहिले वितण्डा— पाण्डित्य-कण्डूल-मुखे जनेऽस्मिन्‌। मायोपदेशात्परमर्मभिन्द— न्नहो! विरक्तो मुनिरन्यदीय:।।

11

न धमहितुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च। स्व-पुत्रघातान्नृपतित्वलिप्सा सब्रह्मचारि स्फुरितं परेषाम्‌।।

12

स्वार्थाऽवबोधक्षम एव बोध: प्रकाशते नार्थकथाऽन्यथा त्तु। परे परेभ्यो भयतस्तथाऽपि, प्रपेदिरे ज्ञानमनात्मनिष्ठम्‌।।

13

माया सती चेद्‌ द्वयतत्त्वसिद्धि— रथासती हन्त! कुत: प्रपंच:? मायैव चेदर्थथहा च तक्कि, माता च वन्ध्या च भवत्परेषाम्‌।।

14

अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यऽवश्यम्‌। अतोऽन्यथा वाचकवाच्यक्लुप्ता— वतावकानां प्रतिभाप्रमाद:।।

15

चिदर्थशून्या च जडा च बुद्धि: शब्दादितन्मात्रजमम्बरादि। न बन्ध-मोक्षौ पुरुषस्य चेति, कियज्जडैर्न ग्रथितं विरोधि।।

16

न तुल्यकाल: फलहेतुभावो, हेतौ विलीने न फलस्य भाव:। न संविदद्वैतपथेऽर्थसंविद्‌, विलून-शीर्ण सुगतेन्द्रजालम्‌।।

17

विना प्रमाणं परवन्न शून्य:, स्वपक्षसिद्धे: पदमश्‍नुवीत। कुप्येत्कृतान्त: स्पृशते प्रमाण— महो! सुदृष्टं त्वदसूयिदृष्टम्‌।।

18

कृतप्रणाशाऽकृतकर्म-भोग— भव-प्रमोक्षस्मृति-भङ्गदोषान्‌। उपेक्ष्य साक्षात्‌ क्षण-भङ्गमिच्छन्‌— नहो! महासाहसिक: परस्ते।।

19

सा वासना सा क्षणसन्ततिश्‍च, नाभेद-भेदानुभयैर्घटेते ततस्तटादर्शिशकुन्तपोत— न्यायात्त्वदुक्तानि परे श्रयन्तु।।

20

विनाऽनुमानेन पराभिसन्धि— मसंविदानस्य तु नास्तिकस्य। न साम्प्रतं वक्तुमपि क्‍व चेष्टा, क्‍व दृष्टमात्रं च हहा! प्रमाद:।।

21

प्रतिक्षणोत्पाद-विनाशयोगि— स्थिरैकमध्यक्षमपीक्षमाण:। जिन! त्वदाज्ञामवमन्यते य: स वातकी नाथ! पिशाचकी वा।।

22

अनन्त-धर्मात्मकमेव तत्त्व— मतोऽन्यथा सत्त्वमसूपपादम्‌। इति प्रमाणान्यपि ते कुवादि— कुरङ्ग-संत्रासन-सिंहनादा:।।

23

अपर्ययं वस्तु समस्यमान— मद्रव्यमेतच्च विविच्यमानम्‌। आदेश-भेदोदितसप्तभङ्ग मदीदुशस्त्वं बुधरूपवेद्यम्‌।।

24

उपाधि-भेदोपहितं विरुद्धं, नार्थेष्वसत्त्वं सद्‌ वाच्यते च। इत्यप्रबुद्ध्यैव विरोधभीता, जडास्तदेकान्तहता: पतन्ति।।

25

स्यान्नाशि नित्यं सदृशं विरूपं, वाच्यं न वाच्यं सदसत्तदेव। विपश्‍चितां नाथ! निपीततत्त्व— सुधोद्गतोद्गार-परम्परेयम्‌।।

26

य एव दोषा: किल नित्यवादे, विनाशवादेऽपि समास्त एव। परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिनशासनं ते।।

27

नैकान्तवादे सुखदु:खभोगौ, न पुण्यपापे न च बन्ध-मोक्षौ। दुर्नीतिवाद-व्यसनासिनैवं, परैर्विलुप्तं जगदप्यशेषम्‌।।

28

सदेव सत्‌ स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनय-प्रमाणै:। यथार्थदर्शी तु नयप्रमांण— पथेन दुर्नीतिपथं त्वमास्थ।।

29

मुक्तोऽपि वोऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे। षड्जीवकार्य त्वमनन्तसंख्य— माख्यस्तथा नाथ! यथा न दोष:।।

30

अन्योन्य-पक्ष-प्रतिपक्ष-भावाद्‌, यथा परे मत्सरिण:-प्रवादा:! नयानशेषानविशेषमिच्छन्‌,। न पक्षपाती समयस्तथा ते।।

31

वागवैभवं ते निखिलं विवेक्तु— माशास्महे चेन्महनीयमुख्य! लड्गेम जंघालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम्‌।।

32

इदं तत्त्वातत्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैर्हा! विनिहितम्‌! तदुद्धर्तुशक्तो नियतमविसंवादिवचन— स्त्वमेवातस्त्रातस्त्वयि कृतसपर्या: कृतधिय:।।