मुख्य सामग्री पर जाएँ
‹ स्तोत्र

अयोगव्यवच्छेदिका (महावीर-स्तोत्रम्)

आचार्य हेमेचन्द्र

1

अगम्यमध्यात्मविदामवाच्यं, वचस्विनामक्षवतां ओ परोक्षम्‌। श्री वर्द्धमानाभिधमात्मरूप— महं स्तुतेर्गोचरमानयामि।।

2

स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्‍चल:। इदं विनिश्‍चित्य तब स्तवं वदन्‌, न बालिशोऽप्येष जनोऽपराध्यति।।

3

कव सिद्धसेनस्तुतयो महार्था, अशिक्षितालापफला क्‍व चैषा। तथापि यूथाधिपते: पथस्थ:, स्खलद्गतिस्तस्यशिशुर्न शोच्य:।।

4

जिनेन्द्र! यानेव विबाधसे स्म, दुरन्तदोषान्‌ विविधैरुपायै:। त एव चित्रं त्वदसूययेव कृता: कृतार्था: परतीर्थनाथै:।।

5

यथास्थितं वस्तु दिशन्नधीश! न ताद्रशं कौशलमाश्रितोऽसि। तुरङ्ग-श्रृङ्गाण्युपपादयद्भ्यो, नम: परेभ्यो नवपण्डितेभ्य:।।

6

जगत्यनुध्यानबलेन शश्‍वत्‌, कृतार्थयत्सु प्रसभं भवत्सु। किमाश्रितोऽन्यै: शरणं त्वदन्य:, स्वमांसदानेन वृथा कृपालु:।।

7

स्वयं कुमार्गं लपतां नु नाम, प्रलम्भमन्यानपि लम्भयन्ति। सुमार्गगं तद्विदमादिशन्त— मसूययान्धा अवमन्वते च।।

8

प्रादेशिकेभ्य: परशासनेभ्य:, पराजयो यत्तव शासनस्य। खद्योतपोतत्युतिङम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य।।

9

शरण्य! पुण्ये तब शासनेऽपि, संदेग्धि यो विप्रतिपद्यते वा। स्वादौ स तथ्ये स्वहिते च पथ्ये, संदेग्धि वा विप्रतिपद्यते वा।।

10

हिंसाद्यसत्कर्मपथोपदेशा— दसर्वविन्मूलतया प्रवृत्ते:। नृशंसदुर्बुद्धि-परिग्रहाच्च, ब्रूमस्त्वदन्यागममप्रमाणम्‌।।

11

हितोपदेशात्सकलज्ञक्लुप्ते— मुमुक्षु-सत्साधुपरिग्रहाच्च पूर्वापरार्थेऽप्यविरोधसिद्धे, स्त्वदागमा एव सतां प्रमाणम्‌।।

12

क्षिप्येत वान्यै: सदृशीक्रियेत वा तवाड्घ्रिपीठे लुठनं सुरेशितु:। इदं यथावस्थितवस्तुदेशनं परै: कथंकारमपाकरिष्यते।।

13

तद्दु:षमाकाल-खलायितं वा; पचेलिमं कर्म भवानुकूलम्‌। उपेक्षते यत्तव शासनार्थ— मयं जनो विप्रतिपद्यते बा।।

14

पर:सहस्रा: शरदस्तपासि, युगान्तरं योगमुपासतां वा। तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम्‌।।

15

अनाप्तजाड्यादिविनिर्मितत्व— सम्भावना-सम्भविविप्रलम्भा:। परोपदेशा: परमाप्त-क्लृप्त— पथोपदेशे किमु संरभन्ते।।

16

यदार्जवादुक्तमयुक्तमन्यै— स्तदन्यथाकारमकारि शिष्यै:। न विप्लवोऽयं तब शासनेऽभू— दहो अधृष्या तव शासनश्री:।।

17

देहाद्ययोगेन सदा शिवत्वं, शरीरयोगादुपदेशकर्म। परस्परस्पर्धि कथं घटेत? परोपक्लुप्तेष्वधिदैवतेषु।।

18

प्रागेव देवान्तरसंश्रितानि, रागादिरूपाण्यवमान्तराणि न मोहजन्यां करुणामपीश! समाधिमाध्यस्थ्ययुगाश्रितोऽसि।।

19

जगन्ति भिन्दन्तु सृजन्तु वा पुन— यथातथा वा पतय: प्रवादिनाम्‌ त्वदेकनिष्ठे भगवन्‌! भवक्षय— क्षमोपदेशे तु परं तपस्विन:।।

20

वपुश्‍च पर्यङ्कशयं श्‍लथं च, दृशौ च नासा नियते स्थिरे च न शिक्षितेयं परतीर्थनायै:, जिनेन्द्र! मुद्रापि तवान्यदास्ताम्‌।।

21

यदीय-सम्यक्त्व-बलात्प्रतीमो, भवादृशानां परमस्वभावम्‌। कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तब शासनाय।।

22

अपक्षपातेन परीक्षमाणा, द्वयं द्वयस्याप्रतिमं प्रतीम: यथास्थितार्थप्रथनं तवैत— दस्थाननिर्बन्धरसं परेषाम्।।

23

अनाद्यविद्योपनिषन्निषण्णै— र्विश्रृङ्खलैश्‍चापलमाचरद्धि:। अमूढलक्ष्योऽपि पराक्रिये यत्‌ त्वत्किङ्कर: किं करवाणि देव!।।

24

विमुक्तवैरव्यसनानुबन्धा: श्रयन्ति यां शाश्‍वतवैरिणोऽपि। परैरगम्यां तब योगिनाथ! तां देशनाभूमिमुपाश्रयेऽहम्‌।।

25

मदेन मानेन मनोभवेन, क्रोधेन लोभेन च सम्मदेन। पराजितानां प्रसभं सुराणां, वृथैव साम्राज्यरुजा परेषाम्‌।।

26

स्वकण्ठपीठे कठिनं कुठारं, परे किरन्त: प्रलपन्तु किञ्चित्‌। मनीषिणां तु त्वयि वीतराग! न रागमात्रेण मनोऽनुरक्तम्‌।।

27

सुनिश्‍चितं मत्सरिणो जनस्य,। न नाथ! मुद्रामतिशेरते ते। माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धा:।।

28

इमां समक्षं प्रतिपक्षसाक्षिणा— मुदारघोषामवघोषणां ब्रुवे। न वीतरागात्परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थिति:।।

29

न श्रद्धयैव त्वयि पक्षपातो, न देषमात्रादरुचि: परेषु। यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर! प्रभुमाश्‍चिता:स्म।।

30

तम:स्पृशामप्रतिभासभाजं, भवन्तमप्याशु विविन्दते या:। महेम चन्द्रांशुदृशावदाता— स्तास्तकंपुण्या जगदीश! वाच:।।

31

यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुष: स चेदूभवा— नेक एव भगवन्नमोऽस्तु ते।।

32

इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो, विगाहन्तां हन्त प्रकृतिपरवादव्यसनिन:। अरक्तद्ष्टानां जिनवर! परीक्षाक्षमधिया— मयं तत्त्वालोक: स्तुतिमयमुपाधिं विधृतवान्‌।।