यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोन्यसक्त:। अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च।।
नीति-शतकम्
अज्ञ: सुखमाराध्य: सुखतरमाराध्यते विशेषज्ञ:। ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति।।
प्रसह्म मणिमुद्धरेन् मकरवक्त्रदंष्टराङ्करात्, समुद्रमपि संतरेत् प्रचलदूर्मिमालाकुलम् भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्, न तु प्रतिनिविष्टमूर्खजन-चित्तमाराधयेत्।।
शशी दिवसधूसरो गलितयौवनाकामिनी, सरो विगतवारिजं मुखमनक्षरं स्वाकृते:। प्रभुर्धनपरायण: सततदुर्गत: सज्जनो, नृपाङ्गणगत: खलो मनसि सप्त शल्यानि मे।।
मणि: शाणोल्लीढ़: समरविजयी हेति-निहतो, मदक्षीणो नाग: शरदि सरित: श्यानपुलिना:। कलाशेषश्चन्द्र: सुरतमृदिता बालवनिता, तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नरा:।।
परिक्षीण: कश्चित् स्पृहयति यवानां प्रसृतये, स पश्चात् तत्पूर्ण: कलयति धरित्रीं तृणसमाम्। अतश्चानैकान्त्याद् गुरुलघुतयाऽर्थेषु धनिना— मवस्था वस्तूनि प्रथयति च सङ्कोचयति च।।
शस्त्रोपस्कृतशब्दसुन्दरगिर: शिष्यप्रदेयागमा:, विख्याता: कवयो वसन्ति विषये यस्य प्रभोर्निर्धना:। तज्जाड्यं वसुधाधिपस्य कवयो ह्यर्थं विनाऽपीश्वरा:, कुत्स्या: स्यु: कुपरीक्षका हि मणयो यै रर्घत:पातिता:।।
विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक् पटुता युधि विक्रम:। यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम्।।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथ: प्रविचलन्ति पदं न धीरा:
एक एव खगो मानी चिरं जीवतु चातक:, पिपासितो वा म्रियते याचते वा पुरन्दरम्।
नीचा दु:खेन याच्यन्ते प्रयच्छन्ति न याचिता:, अथ किञ्चित् प्रयच्छन्ति न गले न च तालुके।।
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदा— प्यर्थिभ्य: प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्। कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं, येषां तान्प्रति मानमुज्झत नृपा: कस्तै: सह स्पर्धते।।
अधिगतपरमार्थान् पण्डितान् मावमंस्था— स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि। अभिनवमदलेखाश्यामगण्डस्थलानां, न भवति विसतन्तुर्वारणं वारणानाम्।।
क्षुत्क्षामोषपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा— मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि। मत्तेभेन्द्रविभिन्नकुम्भकवल-ग्रासैकबद्धस्पृह:, कि जीर्णंतृणमत्ति मानमहतामग्रेसर: केसरी।।
प्रिया न्यायावृत्तिर्मलिनमसुभङ्गेप्यसुकर— मसन्तो नाभ्यर्थ्या: सुहृदपि न याच्य: कृशधन:। विपद्युच्चै: स्थेयं पदमनुविधेयं च महतां, सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम्।।
मनसि वचसि काये पुण्यपीयूषपूर्णा— स्त्रिभुवनमुपकार-श्रेणिभि: प्रीणयन्त:। परगुणपरमाणून् पर्वतीकृत्य नित्यम्, निज हृदि विकसन्त: सन्ति सन्त:कियन्त:।।
इत: स्वपिति केशव: कुलमितस्तदीयद्विषा— मितश्च शरणार्थिन: शिखरिपत्रिण: शेरते। इतश्च वडवानल: सहसमस्तसंवर्तकै— रहो! विततमूर्जितं भरसहं च सिन्धोर्वपु:।।
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनं, क्वचिच्छाकाहार: क्वचिदपि च शाल्योदनरुचि:। क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम्।।
ये सन्तोष-सुखप्रमोदमुदितास्तेषां न भिन्ना मुदो, ये त्वन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता। इत्थं कस्य कृते कृत: सविधिना तादृक् पदं सम्पदां, स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते।।
नमस्यामो देवान् ननु हतविधेस्तेपि वशगा:, विधिर्वन्द्य: सोऽपि प्रतिनियतकर्मैकफलद:। फलं कर्मायत्तं यदि किममरै: किं च विधिना, नमस्तत्कर्मभ्यो विधिरपि न येभ्य: प्रभवति।।
दौर्मन्त्रयान् नृपतिर्विनश्यति यति: सङ्गात् सुतो लालनाद्, विप्रोऽनध्ययनात् कुलं कुतनयात् शीलं खलोऽपासनात्। हीर्मद्यादनवेक्षणादपि कृषि: स्नेह: प्रवासाश्रया— न्मैत्री चाऽप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद् धनम्।।
जाड्यं हीमति गण्यते व्रतरुचौ दम्भ: शुचौ कैतवं, शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि। तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्ति: स्थिरे, तत्को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर्नाङ्कित:।।
जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतां, शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्रिना। शौर्ये वैरिणि वज्रमाशुनिपतत्तवर्थोऽस्तु न: केवलं, येनैकेन बिना गुणास्तृणलवप्राया: समस्ता इमे।।
भग्नाशस्य करण्डपिण्डिततनोर्म्लानिन्द्रियस्य क्षुधा, कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिन:। तप्तस्तत्पिशितेन सत्वरमसौ तेनैव यात: पथा, लोका: पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम्।।
पातितोऽपि कराघातैरुत्पतत्येव कन्दुक:। प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तय:
प्राय: कन्दुकपातेनोत्पतत्यार्य: पतन्नपि। तथा त्वनार्य: पतति मृत्पिण्डपतनं यथा।
प्रीणाति य: सुचरितै: पितरं स पुत्रो, यद् भर्तुरेवहितमिच्छति तत् कलत्रम् तन्मित्रमापदि सुखे च समक्रियं य— देतत्त्रयं जगति पुण्यकृतो लभन्ते।।
दुर्जन: परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन्। मणिना भूषित: सर्प: किमसौ न भयङ्कर:
क्षीरेणात्मगतोदकाय हि गुणा दत्ता:पुरा तेऽखिला:, क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुत:। गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं, युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी
या साधूंश्च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिण:, प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात्। तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं, हे साधो! त्वमतो गुणेषु विपुलेष्वास्थां वृथा मा कृथा:।
कृमिकुलचितं लालाक्लिन्नं विगन्धिजुगुप्सितं, निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम्। सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते, न हि गणयति क्षुद्रो जन्तु: परिग्रहफल्गुताम्
स्वल्पस्नायुवसावशेषमलिनं निर्मांस-मप्यस्थिकं, श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये। सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं, सर्व: कृच्छ्रगतोऽपि वाञ्छति जन: सत्त्वानुरूपं फलम्।।
पापान्निवारयति योजयते हिताय, गुह्यानि गूहति गुणान् प्रकटीकरोति। आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्त:।।
मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्। लुब्धक-धीवर-पिशुना निष्कारणवैरिणो जगति।।
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वात्यां सागरशुक्तिसम्पुटगतं तत् जायते मौक्तिकं, प्रायेणाधममध्यमोत्तमगुण: संसर्गतो जायते।।
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे। रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारित:, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नम: कर्मणे
सुतारा विक्रीता स्वजनविरह: पुत्रमरणं, विनीतायास्त्यागो रिपु-बहुल-देशे च गमनम्। हरिश्चन्द्रो राजा वहति सलिलं प्रेतसदने, ह्यवस्था तस्यैषाप्यहह विषमा: कर्मगतय:।।
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विन:। मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा।।
मौनान्मूक: प्रवचनपटुर्वातुलो जल्पको वा, क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजात:। धृष्ट: पार्श्वे वसति च सदा दूरतश्चाऽप्रगल्भ:, सेवाधर्म: परमगहनो योगिनामप्यगम्य:।।
नम्रत्वेनोन्नमन्त: परगुणकथनै: स्वान् गुणान् ख्यापयन्त:, सवार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्ना: परार्थे। क्षान्त्यैवाक्षेपरूक्षाक्षर-मुखरमुखान् दुर्जनान् दूषयन्त:, सन्त: साश्चर्यचर्या जगति बहुमता: कस्य नाभ्यर्चनीया:
लोभश्चेदगुणेन कि पिशुनता यद्यस्ति किं पातकै:, सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किम्। सौजन्यं यदि किं गुणै: सुमहिमा यद्यस्ति किं मण्डनै:, सद्विद्या यदि किं धनैरपयशो यद्यस्ति कि मृत्युना।।
अम्भोजिनी वनविहारविलासमेव, हंसस्य हन्ति नितरां कुपितो विधाता। न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां, वैदग्ध्य-कीर्तिमपहर्तुमसौ समर्थ:।।
खलवाटो दिवसेश्वरस्य किरणै: सन्तापितो मस्तके, वाच्छन् देशमनातपं विधिवशात्तालस्य मूलं गत:। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिर:, प्रायो गच्छति यत्र भाग्यरहित: तत्रैव यान्त्यापद:
नैवाऽऽकृति: फलति नैव कुलं न शीलं, विद्या न चापि न च यत्नकृताऽपि सेवा। भाग्यानि पूर्वतपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथैव वृक्षा:।।
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक् संयमो, ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय:। अक्रोधस्तपस: क्षमा प्रभवितुर्धर्मस्य निर्व्याजता, सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।।
कृशोपि सिंहो न समो गजैन्द्रै: सत्त्वं प्रधानं न च मांसराशि:। अनेकवृन्दानि वने गजानां, सिंहस्य नादेन मदं त्यजन्ति
एके सत्पुरुषा: परार्थघटका: स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृत: स्वार्थाविरोधेन ये। तेऽमी मानुषराक्षसा: परहितं स्वार्थाय निघ्नन्ति ये, ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे।।
जाड्यं धियो हरति सिञ्चति वाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति। चेत: प्रसादयति दिक्षु तनोति कीर्तिं, सत्सङ्गति: कथय किं न करोति पुंसाम्।।
वाच्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम्। भक्ति: शूलिनि शक्तिरात्मदमने संसर्गमुक्ति: खले, येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नम:।।
विरुद्धस्तथ्यो वा भवतु वितथो वा यदि परं, प्रसिद्ध: सर्वस्मिन् हरति महिमानं जनरव:। तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रवेस्तादृक् तेजो नहि भवति कन्यां गत इति।।
आवर्त: संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहक्षेत्रमप्रत्ययानां। स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डम्, स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाश:।।
दुर्ग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं, भाव: पर्वत-सूक्ष्ममार्ग-विषम: स्त्रीणां न विज्ञायते। चित्तं पुष्कर-पत्रतोय-तरलं विद्वद्भिराशङ्कितं, नारी नाम विषाङ्कुरैरिवलता दोषै: समं वर्द्धिता।।
तृष्णां छिन्धि भज क्षमां जहि मदं पापे मतिं मा कृथा:, सत्य: ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान्। मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान् गुणान्, कीर्तिं पालय दु:खिते कुरु दयामेतत्सतां लक्षणम्।।
गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नत: पण्डितेन। अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाक:।।
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि।।
भीमं वनं भवति तस्य पुरं प्रधानं, सर्वो जन: स्वजनतामुपयाति तस्य। कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा, यस्यास्ति पूर्वसुकृतं विपुलंनरस्य।।
मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे, वाणिज्यं कृषिसेवने च सकला विद्या: कला: शिक्षताम्। आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं, नाभाव्यं भवतीह कर्म वशतो भाव्यस्य नाश: कुत:।।
वरं पक्षच्छेद: समदमघवन्मुक्तकुलिशं, प्रहारैरुद्गच्छद् बहलदहनोद्गारगुरुभि:। तुषाराद्रे: सूनोरहह पितरि क्लेशविवशे, न चासौ सम्पात: पयसि पयसां पत्युरुचित:।।
नेता यस्य बृहस्पति: प्रहरणं वज्रं सुरा: सैनिका:, स्वर्गो दुर्गमनुग्रह: किल हरैरैरावतो वारण:। इत्याश्चर्यबलान्वितोऽपि बलभिद् भग्न: परै: सङ्गरे, तद् युक्तं ननु दैवमेव शरणं धिग् धिग् वृथा पौरुषम्।।
न निर्मिता केन च दृष्टपूर्वा, न श्रूयते हेममयी कुरङ्गी।
कर्मायत्तं फलं पुंसां बुद्धि: कर्मानुसारिणी। तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता।।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:। नास्त्युद्यमसमो बन्धु: कृत्वा यं नावसीदति।।
दानं भोगो नाशस्तित्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति।।
यस्यास्ति वित्तं स नर:कुलीन: स पण्डित: स श्रुतवान् गुणज्ञ:। स एव वक्ता स च दर्शनीय: सर्वे गुणा: काञ्चनमाश्रयन्ति
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्। सुधां विना न प्रययुर्विरामं न निश्चितार्थाद् विरमन्त्धिीरा:।।
सन्त्यन्येऽपि बृहस्पतिप्रभृतय: सम्भाविता: पञ्चषा— स्तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते। द्वावेव ग्रसते दिनेश्वरनिशाप्राणेशवरौ भास्वरौ, भ्रात: पर्वणि पश्य दानवपति: शीर्षावशेषाकृति:
श्रोत्रं श्रुतनेव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन। विभाति काय: करुणापराणां परोपकारैर्न तु चन्दनेन।।
जयन्ति ते सुकृतिनो रससिद्धा: कवीश्वरा:। नास्ति येषां यश:काये जरामरणजं भयम्।।
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं, तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्। तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथा:, कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्।।
लाङ्गूल-चालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च। श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते।।
राजन्! दुधुक्षसि यदि क्षितिधेनुमेतां, तेनाद्य वत्समिव लोकममुं पुषाण। तस्मिंश्च सम्यगनिशं परिपोष्यमाणे, नानाफलै: फलति कल्पलतेवभूमि:।।
सत्यानृता च परुषा प्रियवादिनी च, हिंस्रा दयालुरपि चाऽर्थपरा वदान्या। नित्यव्यया प्रचुरनित्यधनागमा च, वाराङ्गनेव नृपनीतिरनेकरूपा।।
न कश्चित् चण्डकोपानामात्मीयो नाम भूभुजाम्। होतारमपि जुह्णानं स्पृष्टो दहति पावक:।।
विरमविरमामुष्मान् नूनं दुरध्यवसायतो, विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे। अयि जड़विधे! कल्पाऽपाये व्यपेत निजक्रमा:, कुल-शिखरिण: क्षुद्रा नैते न वा जलराशय:।।
अकरुणत्वमकारणविग्रह: परधने परयोषिति च स्पृहा। सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम्।।
कान्ताकटाक्षविशिखा न लुनन्ति यस्य, चित्तं न निर्दहति कोपकृशानुताप:। कर्षन्ति भूरिविषयाश्च न लोभपाशै— लोकत्रयं जयति कृत्स्नमिदं स धीर:
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्, दिनस्य पूर्वार्द्ध-परार्द्धभिन्ना, छायेव मैत्री खल-सज्जनानाम्।।
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधि:। प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृते:। अनुत्सेको लक्षम्यां निरभिभवसारा: परकथा:, सतां केनोद्दिष्टं विषममसिधारा व्रतमिदम्।।
छिन्नोऽपि रोहति तरु: क्षीणोऽप्युपचीयते पुनश्चन्द्र:। इति विमृशन्त: सन्त: सन्तप्यन्ते न विधुरेषु।।
भवन्ति नम्रास्तरव: फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो घना:। अनुद्धता: सत्पुरुषा: समृद्धिभि:स्वभाव एवैष परोपकारिणाम्।।
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुण: प्रमार्ष्टुम्। अधोमुखस्यापि कृतस्य वह्नेर्नाध: शिखा याति कदाचिदेव
अप्रियवचनदरिद्रै: प्रियवचनाढ्यै: स्वदारपरितुष्टै:। परपरिवादनिवृत्तै: क्वचित्क्वचिन्मण्डिता वसुधा।।
पद्माकरं दिनकरो विकचीकरोति, चन्द्रो विकाशयति कैरवचक्रवालम्। नाभ्यर्थितोऽपि जलद: सलिलं ददाति, सन्त: स्वयं परहितेषु कृताभियोगा:।।
एकेनापि हि शूरेण पादाक्रान्तं महीतलम्। क्रियते भास्करेणेव स्फारस्फुरित-तेजसा।।
वरं श्रृंङ्गोत्तुङ्गाद् गुरुशिखरिण: क्वापि विषमे, पतित्वायं काय: कठिनदृषदन्तर्विदलित:। वरं न्यस्तो हस्त: फणिपतिमुखे तीक्ष्णदशने, वरं वह्नौ पातस्तदऽपि न कृत: शीलविलय:।।
वहि्नस्तस्य जलायते जलनिधि: कुल्यायते तत्क्षणा— न्मेरु: स्वल्पशिलायते मृगपति: सद्य: कुरङ्गायते। व्यालो माल्यगुणायते विषरस: पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति।।
यदचेतनोऽपि पादै: स्पृष्ट: प्रज्वलति सवितुरिनकान्त:। तत्तेजस्वी पुरुष: परकृतनिकृतिं कथं सहते।।
आज्ञा कीर्ति: पालनं ब्राह्मणानां, दानं भोगो मित्रसंरक्षणं च। येषामेते षड्गुणा न प्रवृत्ता: कोऽर्थस्तेषां पार्थिवोपाश्रयेण।।
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते, छेत्तुं वज्रमणीन्-शिरीषकुसुमप्रान्तेन सन्नह्मते। माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति य: सतां पथि खलान् सूक्तै: सुधास्यन्दिभि:।।
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञताया:। विशेषत: सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्।।
उद्भासिताऽखिल-खलस्य विश्रृंङ्घलस्य, प्राग्जातविस्मृतनिजाधमकर्मवृत्ते:। दैवादवाप्तविभवस्य गुणद्दिषोस्य, नीचस्य गोचरगतै: सुखमास्यते कै:।।
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यश: सुखकरी विद्या गुरूणां गुरु:। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते नहि धनं विद्याविहीन: पशु:।।
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने, प्रीति: साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम्। शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता, ये चैवं पुरुषा: कलासु कुशलास्तेष्वेव लोकस्थिति:।।
करे श्लाघ्यस्त्याग: शिरसि गुरुपादप्रणमनं, मुखे सत्या वाणी विजयि भुजयो र्वीयमतुलम्। हृदि स्वच्छावृत्ति: श्रुतमधिगतं च श्रवणयो— विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्।।
वहति भुवनश्रेणिं शेष: फणाफलकस्थितां, कमठपतिना मध्ये-पृष्ठं सदा स च धार्यते। तमपि कुरुते क्रोडाधीनं पयोधिरनादरा— दहह महतां नि:सीमानश्चरित्रविभूतय:।।
स जातो येन जातेन याति वंश:समुन्नतिम्। परिवर्तिनि संसारे मृत: को वा न जायते।।
लज्जा-गुणौघ-जननीं जननीमिवार्या— मत्यन्त-शुद्ध-हृदयामनुवर्तमानाम्। तेजस्विन: सुखमसूनपि सन्त्यजन्ति, सत्यव्रतव्यसनिनो न पुन: प्रतिज्ञाम्।।
सिंह: शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु। प्रकृतिरियं सत्ववतां न खलु वयस्तेजसो हेतु:।।
किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्, किं वा नास्ति परिश्रमो दिनपते-रास्ते न यो निश्चल: किं चाङ्गीकृतमुत्सृजन् जन इव श्लाघ्यो जनो लज्जते, निर्वाह: प्रतिपन्न-वस्तुनि सतामेतद्धि गोत्रव्रतम्।।
दूरादर्थं घटयति नवं दूरतश्चापशब्दं, त्यक्त्वा भूयो भवति निरत: सत्कथापादनेषु। मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या, कामं मन्त्री कविरिव सदा स्वेदभारैरमुक्त:।।
अद्यापि नोज्झति हर: किल कालकूटं, कूर्मो बिभर्ति धरणिं निजपृष्ठभागे। अम्भोनिदि र्वहति दुस्सहवाडवाग्नि— मङ्गीकृतं सुकृतिन: परिपालयन्ति
दैवेन प्रभुणा सदा जगति यद् यस्य प्रमाणीकृतं, तत् तस्योपनयेन्मनागपि महान् नैवाश्रयेत् कारणम्। सर्वाशां परिपूरके जलधरे वर्षत्यपि प्रत्यहं, सूक्ष्मा एव पतन्ति चातकमुखे द्वित्रा: पयोबिन्दव:।।
अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथ वा स्वर्ग:। उभयबलसाधुवाद: श्रवणसुखोऽस्त्येव चात्यर्थम्।।
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:, न स्नानं न विलेपनं न कुसुमं नाऽलङ्कृता मूर्धजा:। वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते, क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
भर्तृहरि-भूमिपतिना रचितमिदं नीति-रीति-विज्ञेन। ज्ञाते यत्र न मुह्यति धीरो धीर: प्रमाणं स्यात्।।