मुख्य सामग्री पर जाएँ
‹ स्तोत्र

पञ्चसूत्रम्‌

आचार्य तुलसी

1

एकदा समुपासीना: शिष्या आचार्यमुत्तमम्‌। प्रारेभिरे वरां चर्चां, भावनाभ्यस्तचेतस:।।

2

मुक्तये साधवो जाता:, बन्धनच्छित्तये प्रभो! बन्धनान्यपि साधुत्वे, यदि स्युर्विस्मयो महान्‌।।

3

किमत्र बन्धनं दृष्टं, मुनेरात्मविहारिण:? स्पष्टमावेद्यतां वत्स! मुमुक्षामुद्गमं नयन्‌।।

4

अनुशासनमत्रास्ति, व्यवस्था चापि विद्यते। स्वतन्त्रचतसामतद्‌, बन्धनं स्पष्टमीक्ष्यते।।

5

जीवनं विद्यते यत्र मुमुक्षो! सामुदायिकम्‌। तत्रानिवार्यतामेति, व्यवस्था चानुशासनम्‌।।

6

तथापि बन्धनं नैतद्‌, मुनेरात्मानुशासिन:। परानुशासितस्यैतद्‌, बन्धनं स्यान्न चान्यथा।।

7

अनिवार्य कथं देव! समुदायेऽनुशासनम्‌। यत्र स्वशासिन: सर्वे, विद्यन्ते मुनयो वरा:।।

8

लक्ष्यं स्वशासनं वत्स! तेषामस्तीति मे मति:। परमात्मानुशासित्वं, न क्षणेनैव सिद्धयति।।

9

विवेकोऽपि न सर्वेषां, सदृशो भवति क्‍वचित। सम्बुद्धिश्‍चिन्तनं चापि, रुचि: संस्कारधारणा।।

10

सोपानानि यथारोढुमादेयानि न सर्वदा। तथानुशासनं वत्स! स्वस्याऽऽरोहणहेतवे।।

11

यथा यथा घनं शीतं, वासस्तथा तथा घनम्‌। क्षीणं यथा यथा शीतं, पेलवं तत्तथा तथा।।

12

यथा यथा घनो मोह:, तथा तथाऽनुशासनम्‌। यथा यथा कृशो मोह:, तथातथाऽनुशासनम्‌।।

13

तद् दिनं चापि सम्भावि, यस्मिन्नात्मानुशासनम्‌। गुरुशासननिर्मुक्तमुदेष्यति समात्मना।।

14

एतत्‌ सम्बुद्धिसगम्य, न दीप: सति भास्करे। न दीपा अपि यामिन्यामिति बुद्धेरगोचरम्‌।।

15

एतद्‌ युक्तं नानुशिष्टि:, सूदिते स्वानुशासने। स्वानुशिष्टेरभावेऽपि, नार्हा सेति न सम्मतम्‌।।

16

यथा यथोदयं याति, पुण्यं स्वात्मानुशासनम्‌। विफणावस्थमार्याणां, तथा तथानुशासनम्‌।।

17

सरोवरस्य मध्यस्थं, निर्लिप्तं नलिनीदलम्‌। तथानुशासनस्थोपि, न लिप्त: शासितात्मक:।।

18

श्रीकालूगणिन: पुण्यमुदाहरणमिष्यते। यस्य स्वशासनेनाप्तं, कृशत्वमनुशासनम्‌।।

19

कृशत्वं यो नयेच्छिष्य:, सद्गुरोरनुशासनम्‌। स कथं स्याद्‌ विनीतात्मा, संशये भगवन्नहम्‌।।

20

गुरुर्वाञ्छति शिष्येषु, विकसेदात्मशासनम्‌। न वाञ्छति भवेयुस्ते, नित्यं सम्प्रेरिता: परै:।।

21

गुरुर्बध्‍नाति नो जाले, मीनानिवेह मैनिक:। गुरुर्विहारयत्यभ्रे, पोतानिव विहङ्गम:।।

22

चञ्चुमध्ये क्षिपन्तेऽपि, भोजनं पक्षिणो यथा। तथानुशास्ति कृत्योऽपि, स्वशिष्यान्‌ बालकानिव।।

23

पङ्गतां न नयत्येष, हस्तालम्बं सृजन्नपि। गतिं सम्प्रेरयत्येव, गच्छेयुस्ते निजक्रमै:।।

24

पुराऽनुशासनं पुण्यमतीतेऽशिक्षिति जने। इदानीं शिक्षिते लोके, किमावश्यकमस्ति तत्‌?।।

25

शाश्‍वतं किञ्चिदत्रास्ति, किञ्चित्‌ सामयिकं तथा। त्रैकालिकमिदं सत्यमारम्भ: सानुशासन:।।

26

वैज्ञानिकमिदं तथ्यं संसिद्धि: स्वानुशासना। तेनानुशासने प्रेम, पीनं भूयात्‌ तवानिशम्‌।।

27

उच्छुङ्घला: स्खलन्त्येव, पुरो यान्ति सुश्रृङ्खला:। तेनानुशास्तिमासाद्य, स्वानुशिष्टे: पथि व्रज।।

28

पुरा स्वातन्त्र्यमिच्छन्ति, ते नार्हन्ति स्वतन्त्रताम्‌। पुराऽनुशास्तिमिच्छन्ति, तेऽर्हन्ति सुस्वतन्त्रताम्‌।।

29

तावच्छिष्यो भवेच्छिष्य:, यावत्‌ साहाय्यमाप्‍नुयात्‌। अनुशासितुमात्मानं, शिष्टेरेतत्‌ प्रयोजनम्‌।।

30

सर्वा चर्यां विहारञ्च, वासं शिक्षां तथाऽपरम्‌। सर्वं सुसंयत: कुर्यादनुसृत्यानुशासनम्‌।।

31

भारं वहति यो बुद्धे:, स नार्हति समर्पणम्‌। तद्‌ विना नानुशास्ति: स्यात्‌ स्वीकार्या नम्रभावत:।।

32

यत्र शिष्यो न मन्येत, गुरुं स्वहृदये स्थितम्‌। समर्पणं न तत्र स्याद्‌, नानुशास्तिश्‍च हार्दिकी।।

33

गुरुश्‍चापि न मन्येत, शिष्यं स्वहृदयं गतम्‌। वात्सल्यं न च तत्र स्याद्‌, नानुशास्तिश्‍च हार्दिकी।।

34

विनयो नाम शिष्याणां, वात्सल्यं च गुरोरपि। यत्र योगं प्रकुवति, तत्र हार्दं समर्पणम्‌।।

35

हार्दं समर्पणं यत्र, तत्रानुशास्तिरात्मिकी। यत्रानुशासनं हार्द तत्र शासनगौरवम्‌।।

36

व्यवस्था सत्यमाप्‍नोति, सत्यं शिवत्वमशनुते। शिवं यत्र भवेत्तत्र, सौन्दर्यं सहजं भवेत्‌।।

37

समपङ्क्तौ स्थिता भान्ति, मानवा: सममस्तका:। फलमेतद् व्यवस्थाया:, अव्यवस्था विमुह्यति।।

38

व्यवस्था मुख्यतां नीता, तेन देवार्यभिक्षुणा। तेरापन्थस्य सौन्दर्यं, तत एवास्ति भूतले।।

39

आचार्योऽत्र भवेदेक:, स्यु: शिष्या अपरे समे। इति व्यवस्थया तेन, कलहोन्मूलनं कृतम्‌।।

40

शिष्यलोलुपता भूय: साधूनां विनिवारिता। शक्ति: पुञ्जीकृता पुण्या, विनयोद्‌भवमाश्रिता।।

41

न हि सर्वत्र सञ्चारी, सविता किन्तु तत्करा:। सञ्चरन्ति च सर्वत्र, हरन्ति जगतस्तम:।।

42

आचार्यस्य करीभूता:, विहरन्ति मुमुक्षव:। हरन्ति जगतो ध्वान्तं, सञ्चरन्ति पृथक्‌-पृथक्‌।।

43

तेप्येक प्रमुखीकृता, विहरेयुरियं स्थिति:। धर्मप्रवृद्धयेऽकारि, गणस्योन्नतये ध्रुवम्‌।।

44

कराणां तत्करत्वं स्याल्लीयेरंस्तरणौ निजम्‌। उत्थितं जलधेर्वारि, पुनरेति महार्णवम्‌।।

45

मुख्यानां तद्धि मुख्यत्वं, लीयेरन्‌ गणिनि स्वकम्‌। अनन्यत्वमत: सिद्ध्येद्‌ जीवानां ब्रह्मणा यथा।।

46

पुस्तकेषु प्रदत्तेषु, गणिना पाठहेतवे। न स्वामित्वं प्रकुर्वीत, नान्येषु गणवस्तुषु।।

47

ममकारं न कुर्वीत, सहगामिषु साधुषु। साध्वीषु सर्वथाप्येष, योगोस्ति प्रातिहारिक:।।

48

अनन्तरं चातुर्मास्य, आयाता अग्रगामिन:। अर्पणप्रवणां शब्दावलिं, जल्पन्ति तत्क्षणम्‌।।

49

शब्दात्मा न भवेदेषा, भावाद्‌ विप्रच्युता ध्रुवम्‌। न हितं साधयेत्‌ किञ्चिद्‌ व्यवस्था खलु शाब्दिकी।।

50

अव्यवस्था व्यवस्थाया:, शाब्दिक्या: प्रवरा भवेत्‌। यस्यामप्रत्यय: स्पष्टं, न मोहं विनयेद्‌ मन:।।

51

सप्राणाऽसौ व्यवस्था स्यादिति बाढ़मपेक्ष्यते। अन्यथा शिष्यनिर्मुक्ति:, कृतापि न कृता भवेत्‌।।

52

यथावश्यकमाचार्य:, साधून्‌ साध्वीश्‍च योजयेत्‌। साहाय्यं तत्र कुर्वीरन्नाचार्यस्य सुचेतस:।।

53

एतत्‌ साहाय्यमार्याय, दातुमर्हन्ति साधव:। यथाग्रगामिनस्तद्वद्‌, मुनय: सहगामिन:।।

54

आवश्यकं परिवर्त, स्वीकुर्वीरन्‌ सहर्षकम्‌। तदाचार्यस्य सारल्यमत्र कामं प्रजायते।।

55

ग्रामेष्वाचार्यदिष्टेषु, प्रवरेष्ववरेषु च। विहारो मुनिभि: कार्य: श्रयद्भि: समभावनाम्‌।।

56

आहारस्य व्यवस्था या, यदाऽचार्येण सृज्यते। तथैव पालनीया सा, प्रमाणं वार्तमानिकी।।

57

पुरा विभाग: साधूनां, साध्वीनां चाभवत्‌ समम्‌। इदानीं प्राप्यते सर्वै:, स्वानीता गोचरी स्वयम्‌।।

58

सौविध्याय कृतास्त्येषा, व्यवस्था सुनियोजिता। यथावश्यकमेषापि, परिवर्तनमर्हति।।

59

सामुदायिककार्याणि, दीक्षाक्रमेण सन्ततम्‌। सर्वैरपि विधेयानि, व्यवस्थेयं परम्परम्‌।।

60

विहारकारिणां केषां, स्थिरवासमुपेयुषाम्‌। शरीरास्वास्थ्यमाप्तानां, सेवा कार्या ससम्मदम्‌।।

61

चराणां च चरा सेवा, स्थिरा स्थैर्यमुपेयुषाम्‌। द्विविधापि विधातव्या, सकलैरग्रगामिभि:।।

62

पुरा गाथा प्रबन्धोऽभूत्‌, सेवा सम्प्रति साधिता। साधूनामपि साध्वीनामनिवार्यतया मया।।

63

सेवा शाश्‍वतिको धर्म:, सेवा भेदविसर्जनम्‌। सेवा समर्पणं स्वस्य, सेवा ज्ञानफलं महत्‌।।

64

महान्तो ज्ञानिन: सन्ति, महान्तो ध्यानिनस्तथा। तेभ्योऽपि सुमहान्तश्‍च, सन्ति सेवापरायणा:।।

65

सेवातन्तोरनुस्यूत्या, सङ्गस्यैकत्वमिष्यते। सेवातन्तोश्‍च विच्छित्त्या, सङ्घच्छेदोऽपि जायते।।

66

वैयावृत्त्यं कृतं येन, मुने: रुग्णस्य भावत:। मम सेवा कृता तेन, ब्रूते तीर्थंकरो महान्‌।।

67

तेन सेवाव्रतं पुण्यं, समुपास्यं ससम्मदम्‌। साधुभिश्‍चापि साध्वीभिर्व्यवस्थैषा महोदया।।

68

स्थाननिर्धारणं चापि, दीक्षाक्रमेण जायते। साहाय्यस्यापि चैकस्य, शयनस्य स्थितेरपि।।

69

व्यवस्थाऽसौ व्यवस्थानामखिलानां प्रविद्यते। आचार्योऽमूर्यथायोग्यं, परिवर्तयितुं क्षम:।।

70

कार्यादीनां व्यवस्थायां, व्यापृणीयान्न कञ्चन। इति स्वतन्त्रतामेति, गणौचित्यं प्रपालयन्‌।।

71

पुरान्येषां पदानाञ्च, व्यवस्थासीत्‌ परम्परा। भिक्षुणाऽभाणि सर्वेषां, पदानां कार्यकार्यहम्‌।।

72

ततस्तेषामप्रवृत्तिरस्माकं शासनेऽभवत्। परन्तु न निषेधोऽत्र, कृतस्तेन महात्मना।।

73

महानद्य गणो जात:, कार्य विवृद्धिमाश्रितम्‌। तेन काचिद्‌ व्यवस्थापि, मयाऽद्य समपेक्ष्यते।।

74

महामतेर्महाबोधे:, ` श्रीभिक्षोर्दूरदर्शिन:। हार्दं सम्बुद्धयमानोऽह, व्यवस्थां काञ्चिदारभे।।

75

पुण्या चतुर्निकायात्मा, व्यवस्था क्रियते मया। प्रबन्ध: साधना शिक्षा, साहित्यञ्च भवन्त्यमी।।

76

व्यवस्थापकवर्गेण, सर्वेऽमी स्युर्व्यवस्थिता:। गणस्योन्नतये नूनं, भाविन: सुसमीक्षिता:।।

77

व्यवस्थापकवर्गोऽत्र, गणिनैव नियोक्ष्यते। एको निकायसचिव:, नियुक्तोऽत्र भविष्यति।।

78

आचार्येण परां प्रीतिमावहन्‌ प्रत्ययास्पदम्‌। विनम्रो धृतिमान्‌ सङ्घनिष्ठां य: सुदृढां वहेत्‌।।

79

आचार्याज्ञां समासाद्य, स तां क्रियान्वितिं नयेत्‌। व्यवस्थापकवर्गेण, तथान्यै: सहयोगिभि:।।

80

यथाकार्यं यथायोग्यमाचार्येण महात्मना। व्यवस्था व्यवहार्यासौ, सर्वं स्वातन्त्र्यमर्हति।।

81

कदाचित्‌ सम्प्रवर्तेत, निरुध्याच्च कदाचन। नात्र कश्‍चित्‌ परिप्रश्‍न:, कार्य: शासनसेविभि:।।

82

किमर्थं साधवो जाता:? स्मरणीयमिदं मुहु:। स्मृतिरेषा महापुण्या, लक्ष्यं सदानुधावति।।

83

नाहाराय न पानाय, नाश्रयाय न वाससे। अस्माभि: स्वीकृता दीक्षा, न प्रतिष्ठोपलब्धये।।

84

आत्मोदयाय साधुत्वमस्माभि: स्वीकृतं शुभम्‌। तेनात्मनि दृढ़ा श्रद्धा, समुन्नेया मुमुक्षुभि:।।

85

वैभाविकप्रवृत्तीनां, निवृत्तिरुदयो भवेत्‌। यथा यथा निवृत्ति: स्यात्‌, तथा तथाऽन्तरोदय:।।

86

कायोत्सर्गस्तथा ध्यानं, भेदविज्ञानचिन्तनम्‌। लक्ष्यसिद्ध्यै भवेत्कार्योभ्यासोऽमीषां मुहुर्मुह:।।

87

कषायो मन्दतामेति, ऋमेणानेन चारुणा। कषाये मन्दतां प्राप्ते, शान्तिरुज्जृम्भते वरा।।

88

स्वभावे शान्तिमायाते, साधुता शोभते शुभा। आनन्द उदयं याति, वाचाऽनिर्वचनीयक:।।

89

दीक्षा प्राप्ता न च प्राप्त:, आत्मानन्दो यदोदयम्‌। तदा त्यक्तं गृहं नाम, न त्यक्ता गृहवासना।।

90

मूल्यं क्षणस्य विज्ञाय, भाव्यं भूयोऽप्रमादिना। दिनचर्यां स्थिरीकृत्य, निश्‍चित्य कार्यपद्धतिम्‌।।

91

अपेक्षा विविधा संघे, वैविध्यञ्च रुचेरपिं तेन स्वरुचिमालम्ब्य, कर्त्तव्य: कार्यनिश्‍चय:।।

92

सेवारुचिर्मुनि: कश्‍चित्‌, स सेवेत गणं समम्‌ न भेदं समपेक्षेत, सेवाकार्ये स कञ्चन।।

93

संघाटकं समं सर्व, साहाय्यं च समं तथा पश्यतश्‍चक्षुषी यस्य, गणमेकं स पश्यति।।

94

स्वाध्यायरुचिरप्येक:, स्वाध्यायं कुरुतां भृशम्‌ गणोन्नतिकरा एते, स्वाध्यायरतचेतस:।।

95

विद्यावृद्धमिदं विश्‍वं, यन्निर्विद्यानुपेक्षते स्वाध्यायस्‍नातका: सन्तो, भवन्त्यभ्यर्हिता जनै:।।

96

एक: कृतरुचिध्यनि, ध्यानं धरतु सन्ततम्‌ चिरतां सगणस्यायुर्नयते नात्र संशय:।।

97

ध्यानाग्‍निनेरितो नित्यं, निर्मलो भासते गण: परं मलापनोदाय, नौषधं ध्यानसन्निभम्‌।।

98

व्याख्यानरुचिरप्यत्र, करोतूद्यममुन्नतम्‌ गणं प्रभावयन्त्येव, व्याख्यानप्रवणा भृशम्‌।।

99

वाक्कौशलं चमत्कारो, यात्वस्ति महतो महत्‌ आकर्षति जनान्‌ सद्य:, तथानुगमयत्यपि।।

100

साहित्यरुचिरेक: स्यान्निर्माणार्पितमानस: विचारान्‌ नूतनान्‌ भव्यान्‌, स ग्रथ्नातु शुभाकृतौ।।

101

लाभमश्‍नुवते लोका:, प्रभावोऽपि च वर्धते विचारसाम्यमापन्ने, पूर्वमैक्यं प्रजायते।।

102

एकेन्द्रियजयरुचि:, स नित्यं यततामिह सर्वेन्द्रियजयरुचि:, विकासं सोपि गच्छतु।।

103

अनेके सन्ति पन्थान:, साधनाक्षेत्रचारिणाम्‌। प्रकर्षं चरणान्‌ नेतुमवलम्ब्यो यथारुचि।।

104

सर्वे सर्वाध्वभिर्गन्तुं, सामर्थ्यं लभतां वरम्‌। किन्तु सर्वात्मना सर्वे, गन्तुं सर्वत्र नेशते।।

105

तेनैको मुख्यरूपेण, समालम्ब्यो मुमुक्षुणा। केवलं लक्ष्यसंसिद्ध्यै, न प्रभावयितुं परान्‌।।

106

ग्रन्थान्‌ कश्‍चिल्लिखेन्नापि, किन्तु स्वाध्यायमाश्रयेत्‌। कुर्याद्‌ ध्यानं तथा गच्छेत्‌ सर्वेन्द्रियजये रतिम्‌।।

107

मुमुक्षत्वमिदं पुण्यं, न च ग्रन्थादिलेखनम्‌। फलोपमं तदेतत्स्यात्‌, मूलं फलैर्विशिष्यते।।

108

चर्यायां वर्तमानस्य, प्रमाद: क्‍वापि जायते। उपदेशो विधातव्य:, तत्र ज्येष्ठेन सादरम्‌।।

109

इत्थं न वर्तितव्यं स्यादुपदेशो भवेदसौ। जातायां विस्मृतौ तस्य, कर्तव्या स्मारणा भवेत्‌।।

110

पुनस्तत्र प्रमादे हि, प्रतिस्मारयते गुरु:। प्रायश्‍चित्तं ततो देयं, ततो निष्काशनं गणात्‌।।

111

कुथितं कोथयेत्‌ पत्रं, तम्बोलस्य पराण्यपि। तथैव कुथित: साधु: कोथयेदपरानपि।।

112

संख्यया नैधते तेज:, तेज: शक्त्याभिवर्धते। नयन्ति गौरवं संघमपि चाल्पे तपस्विन:।।

113

कदाचिद्धीयते संख्या, कदाचिच्च विवर्धते। नास्या महत्त्वमस्त्यस्य, तिष्ठेत्‌ संघो विशुद्धिमान्‌।।

114

गणगङ्गाजले पुण्ये, प्रवहति निरन्तरम्‌। स्‍नाता भवन्ति भूयांसो, निर्मलान्त:प्रवृत्तय:।।

115

लब्धालम्बं पुष्पं, स्थानं कल्याणमेति फलदाङ्के। लब्धालम्बो भिक्षु:, स्थानं कल्याणमेति गच्छाङ्के।।

116

मुक्तालम्बं पुष्पं, सद्य: पातं प्रयाति भूम्यङ्के। मुक्तालम्बो भिक्षु:, सद्य: पातं प्रयाति रागाङ्के।।

117

आलम्बनानि भूयो, मुनिना पीनानि तद्‌ विधेयानि। निदिशामि तत्र कतिचित्‌, स्वयमूह्यानीतराणि सापेक्षम्‌।।

118

आलम्बनमिदं कार्य, विषयेच्छानिवृत्तये। इन्द्रियाणि प्रधावन्ति, विषयेषु शरीरिणाम्‌।।

119

इक्षुवद्‌ विरसा: प्रान्ते, सेविता: स्यु: परे रसा:। सेवितस्तु रस: शान्त:, सरस: स्यात्‌ परं परम्‌।।

120

जीवनं यत्र तत्राऽस्ति, परिस्थितिप्रताडनम्‌। आलम्बनमिदं कार्य, विजयाय परिस्थिते:।।

121

पत्थरेणाहतो कीबो, स डसइ पत्थरं। मिगारी उ सरं पप्प, सरुप्पतिं व मग्गति।।

122

तहा बालो दुही वत्थुं, बाहिरं णिंदती भिसं। दुक्खुप्पत्ति-विणासं तु, मिगारिव्व ण पप्पति।।

123

नानामतयो लोका:, केनाप्याक्रुष्ट एषयेत्तत्त्वम्‌। अप्रियतामपि नीत:, शुचिना दुग्धेन मिनुयात्‌ स्वम्‌।।

124

आक्रुष्टेन मतिमता, तत्त्वार्थान्वेषणे मति: कार्या। यदि सत्यं क: कोप:, यद्यनृतं किन्नु कोपेन?।।

125

को हितुलामधिरोहति, शुचिना दुग्धेन सहजमधुरेण। तप्तं विकृतं मथितं, तथापि यत्‌ स्‍नेहमुद्गिरति।।

126

अनुशासनमुपनीतो, गुरुणाप्यरुणेन वाक्प्रयोगेण। उपस्थितं तनुयात्‌ स्वं, कलमस्याख्यातमास्पृशंस्तद्वत्‌।।

127

अस्मानवेहि कलमानलमाहतानां, येषां प्रकाण्डमुशलैरवदाततैव। स्‍नेहं विमुच्य सहसा खलतां प्रयान्ति, ये स्वल्पमर्दनवशान्न वयं तिलास्ते।।

128

प्रियमप्रियमपि योग— माभेजान: सहेत समभावम्‌। स्मृत्वा दशरथवाक्यं, चरितं रामस्य सम्यगापश्यन्‌।।

129

आहूतस्याभिषेकाय, विसृष्टस्य वनाय च। न लक्षितो मया तस्य, स्वल्पोप्याकारविभ्रम:।।

130

यैरुपकृतिराचीर्णा, तानुपनतबुद्धिरनुनयेन्नित्यम्‌ मन्त्रममोघममुं यो वेत्ति स विन्ते सुरक्षितं स्वस्वम्‌।।

131

प्रथमवयसि पीतं तोयमल्पं स्मरन्त:, शिरसि निहितभारा नालिकेरा नराणाम्‌। उदकममृततुल्यं दद्युराजीवितान्तं, न हि कृतमुपकारं साधवो विस्मरन्ति।।

132

कलहो न हित: क्‍वचिदपि, परमाहारक्षणे विशेषेण। भोजनसमये कलहं, कुर्वन्नग्‍नि नयत्ति मन्दत्वम्‌।।

133

ईष्याभयक्रोधपरिक्षतेन, लुब्यैन रुग्दैन्यनिपीडितेन। प्रद्वेषयुक्तेन च सेव्यमान— मन्नं न सम्यक्‌ परिपाकमेति।।

134

अय्युत्पन्नमति: स्याद्‌, बोध्यस्तत्राग्रहो न कर्त्तव्य:। युक्त्या प्रतिबोधितको, मुञ्चत्यल्पाशयोऽपि दुस्त्यजकम्‌।।

135

कासे दध्‍नो भोजनेन, लाभा: सन्ति त्रयो ध्रुवम्‌। न वार्धक्यं न वा चौर्य, न श्‍वा भक्षयति क्‍वचित्‌।।

136

अनुकूलत्वं लब्धं, प्रतिकूलत्वं क्‍वचित्‌ पुनर्लब्धम्‌। समता न हि हातव्या, मुनिना सवितुस्तुलां समाश्रयता।।

137

लाभालाभे सुहे दुक्खे, जीविए मरणे तहा। समो निन्दा-पसंसासु, तहा माणावमाणओ।।

138

अणिस्सिओ इहं लोए, परलोए अणिस्सिओ। वासी-चन्दण-कप्पो य, असणे अणसणे तहा।।

139

उदये सविता रक्तो, रक्तश्‍चास्तमये तथा। सम्पत्तौ च विपत्तौ च, महतामेकरूपता।।

140

केचन मृदुलात्मान:, स्वल्पं चाप्यनुभवन्ति बहुतरं कृत्वा। पदे पदेप्यपमाना— शङ्काभीताश्‍च तैश्‍चिरं चिन्त्यम्‌।।

141

अपमानादयस्तस्य, विक्षेपो यस्य चेतस:। नापमानादयस्तस्य, न क्षेपो यस्य चेतस:।।

142

नापि क्‍वचन विवाद: कार्य: पालयतात्मगौरवं महता। सविवादो व्यवहारं, मानीकरोति सिद्धसेनोक्तम्‌।।

143

ग्रामान्तरोपगतयो— रेकामिषसङ्गजातमत्सरयो:। स्यात्‌ सख्यमपि शुनो— र्भ्रात्रोरपि वादिनोर्न स्यात्‌।।

144

सहजगुणो नम्रत्वं, परमवलेपं व्रजेद्‌ मुनि: कश्‍चित्‌। बहुश्रुतत्वं प्राप्त— स्तत्रागदमाप्‍नुयात्‌ प्रवरम्‌।।

145

ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्य:। अगदो यस्य विषायति, तस्य चिकित्सा कथं क्रियते।।

146

एका मम जिज्ञासा— शासे पूर्णा भविष्यति प्रकटम्‌। कथमायामि मुनीश्‍वर! शान्तं सहवासमत्र समुदाये।।

147

सुखमिष्टं सर्वेषां नाशान्तस्तत्‌ क्‍वचित्‌ क्षणं लभते। सम्भाव्य किमिदं स्यात्‌? सहवासश्‍चापि शान्तिरपि।।

148

अभावितात्मा न हि शान्तिमेति, तिष्ठन्निहैकोपि जन: कथञ्चित्‌। न भावितात्मा बहुषु स्थितोऽपि, ब्रजेदशान्ति तब वच्मि तथ्यम्‌।।

149

को भावितात्मा भगवन्‌! प्रवाच्यो? जिज्ञासुरस्मि प्रतिबौद्धुमेतत्‌। यो वस्तुसत्येन मन:प्रवृत्तिं, प्रयुक्तवानस्ति स भावितात्मा।।

150

एकत्वमाप्तोऽपि वसन्‌ समूहै, परानपेक्षेत गुणानुकारे। परानुपेक्षेत गुणोपरोधे, स भावितात्मा चिरमेति शान्तिम्‌।।

151

इच्छन्नपि परां शान्तिमेकस्तां नाधिगच्छति। कारणं किं प्रभो! तत्र, ज्ञातुमिच्छामि सम्प्रति।।

152

किं नाकर्णि त्वया शिष्य! सुभाषितमिदं वच: अज्ञानं सर्वपापेभ्य:, पापमस्ति महत्तरम्‌।।

153

अज्ञानं खलु कष्टं, क्रोधादिभ्योपि सर्वपापेभ्य:। अर्थ हितमहितं वा, न वेत्ति येनावृतो लोक:।।

154

अज्ञानस्य जिहासायै, किञ्चिदिच्छामि भाषितम्‌। यदि नो कष्ट-संस्पर्शस्तद्‌ देश्यो देव! सम्प्रति।।

155

अन्योन्यं वत्स! सन्देहो, निरपेक्षा मन:स्थिति:। अभाव: सहयोगस्य, स्तार्थसिद्धे: प्रधानता।।

156

अपालनं समत्वस्य, मर्यादाया उपेक्षणम्‌। न्यूना कर्तव्यनिष्ठा च, सुतरामसहिष्णुता।।

157

स्वच्छन्दा वृत्तिरज्ञानमनुशासन-पद्धते: अविवेक इमे स्पष्टमशान्ते: सन्ति हेतव:।।

158

सन्देहेन द्वैधभावश्‍च तेन, नैकात्मत्वं तद्‌ बिना नैव शान्ति:। सन्देहेनोच्छेदमाप प्रसिद्धं, सङ्घो नूनं वृज्जिकानां सुशक्त:।।

159

सापेक्षत्वं नश्य तत्‌ सूत्रमस्ति, येनाऽन्योन्यं वीक्षतेऽनन्यदृष्ट्या। यत्रान्योन्यं नाम नाऽपेक्षतेपि, सङ्घोच्छेदो जायते तत्र नूनम्‌।।

160

साधूनामात्मसान्निध्ये, युक्तास्ति निरपेक्षता। किन्तु देहस्य सान्निध्ये, सापेक्षत्वमपीप्सितम्‌।।

161

सापेक्षत्वविकासेन, सहयोगोऽभिवर्धते। सहयोगस्य भावोऽस्ति, तत्र प्रीति: परा भवेत्‌।।

162

अस्ति प्रीति: परा यत्र, स्वार्थस्तत्रैति गौणताम्‌। यत्र स्वार्थविमोक्षोस्ति, विश्‍वासस्तत्र राजते।।

163

स्वार्थवृत्तिरिहैकस्य, द्वितीये परिवर्तनम्‌। तावज्जनयति प्रायो, यावच्छक्यं न कल्पितुम्‌।।

164

नियमास्तत्कृतेऽन्ये स्यु:, येन स्वार्थ: प्रसिद्ध्यति। नियमास्तत्कृतेऽन्ये च, येन स्वार्थो न सिद्ध्यति।।

165

सम्बन्धानपरान्‌ सर्वान्‌, गौणीकृत्य प्रपश्यति। स्वार्थसिद्धिं प्रमुख्येन, स्वार्थदृष्टिसौ जन:।।

166

स्वार्थस्तनुते चक्षुरन्धं मोहेन भावितं भूय:। कुर्वंश्‍चेतोभङ्ग , वैषम्यं प्रतिचरणमपि जनयन्‌।।

167

स्वार्थबुद्धे: प्रधानत्वं, वैषम्यमिति पर्यय:। अविवेको हि वैषम्यं, विवेक: साम्यमुच्यते।।

168

एक: कार्यरतो नित्यमपरो बहुधाऽलस:। समदृष्ट्या कथं दृश्यौ, प्रश्‍नोऽयं विद्यते महान्‌।।

169

निर्विशेषं यदा स्वामी, समं भृत्येषु वर्तते। तत्रोद्यमसमर्थानामुत्साह: परिहीयते।।

170

न मुनि: कश्‍चन भृत्य:, न स्वामी कोपि विद्यते विबुध:। तेन समारोपोऽयं, न हि करणीयो विषमताजनन:।।

171

सेवा कार्या स्वात्मधर्मं विचिन्त्य, विद्या देया स्वात्मधर्मं विचिन्त्य। विद्या ग्राह्या नेति बुद्ध्यैव सेवा, सेवा प्राप्ता नेति बुद्ध्यैव विद्या।।

172

त्यक्त्वा विनिमयबुद्धि, पश्यत कर्त्तव्यमात्मनो विमलम्‌। स्वार्थ: सेत्स्यति सहजं, समताधर्मोऽपि सेवितो भविता।।

173

इच्छासामाचारीविहित: सर्वोऽपि साधुसहयोग:। तेनात्माधीनोऽयं, साधूनां भवति सहयोग:।।

174

मर्यादां पालयत्येक, एकश्‍च तामुपेक्षते। एक: कर्त्तव्यनिष्ठश्‍च, कर्त्तव्योपेक्षको पर:।।

175

एकस्य जायते ग्लानिरपरस्य भयं तत:। एवमान्तरसम्बन्धविच्छेदो जायते ध्रुवम्‌।।

176

विधाय विस्तृतं प्रेम, जेतव्या ग्लानिरुद्धता। मान्द्यं विनाशमागच्छेत्‌ प्रतिबोध्यास्तथा पटु।।

177

मृदुमध्याधिमात्राभि: प्रतिबोध्या भवन्त्यमी। न तु सर्वत्र पन्था: स्यादेक एवावलम्बित:।।

178

भोजनं नित्यकार्यञ्च, विभाज्यमथवा न हि। किन्तु वैषम्यबुद्धिस्तु, निवार्या मुनिसत्तमै:।।

179

यथेष्टं आहरेते द्वौ, भवत्येक उपेक्षित:। अशान्तसहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

180

तिस्र: स्युर्व्यापृता: कार्ये, नैका व्यापारमाश्रिता। अशान्तसहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

181

सर्वे स्यु सहभुञ्जाना:, सर्वे स्यु: कार्यव्यापृता:। शान्तस्य सहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

182

भारदानेऽपि वैषम्यं, दुनोति विपुलं मन:। अशान्तसहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

183

अस्वास्थ्ये कस्यचित्‌ सेवा, सम्यक्‌ कश्‍चिदुपेक्षित:। अशान्तसहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

184

प्रमादे कश्‍चिदाक्रुष्ट: नोपालब्धो भवेत्‌ पर:। अशान्तसहवासस्य, बीजमेतत्‌ परिस्फुटम्‌।।

185

समभारा: समसेवा:, सति प्रमादे समप्रतीकारा:। शान्तं सहवासं ते, मुनयो जनयन्ति निर्मलाचारा:।।

186

भेदं जनयति भेदबुद्धिरभेदं ह्यभेदबुद्धिश्‍च। वैषम्यं न तु कार्ये, तत्प्रतिबिम्बं हि भेदबुद्धिकृतम्‌।।

187

अभेदबुद्धि: स्थिरतामुपैति, तदा न वैषम्यमतिर्विजुम्भेत्‌। समं मनो हि समतां प्रसूते, वैषम्यमेवं विषमं मनो हि।।

188

तेनान्तस्तलतुलया, स्वमन: कामं प्रतोलनीयं स्यात्‌। तेन विशदभावेन,। यो लिप्सु: शान्तसहवासम्‌।।

189

द्रव्यं क्षेत्रं कालं भावं, सम्प्राप्य भवति वैषम्यम्‌। परमिह समवृत्तीनां, वैषम्यं नानुभूतं स्यात्‌।।

190

सङ्घाटकान्यनेकानि, मिलितानि क्‍वचित्‌ पुन:। सामञ्जस्यं स्थापयेयु:, सौहार्दस्य परस्परम्‌।।

191

भारदानादिकं कार्यमसामञ्जस्य रूपकम्‌। 'अशान्तसहवासस्य, प्रायो हेतु प्रजायते।।

192

परस्यासन्निहितस्य, स्थितिं वीक्ष्यापरोप्यसौ। सेवां सन्तुलितामव गृह्णीयात्‌ स्वानुगैस्तदा।।

193

अपि शरीरं कष्टं, मानसमप्युद्भवं कदाचिदियात्‌। सोढुं तदशक्तानां, सहवासोऽशान्तिमारभते।।

194

कनिष्ठं कर्हिचिज्ज्येष्ठ:, कदाचित्‌ तं कनिष्ठक:। सहेत सुधिया शान्तसहवासस्य हेतवे।।

195

आकस्मिकस्तु सम्प्राप्त'आवेग: कस्यचिद्‌ भवेत्‌। तदाऽपरेण मौनस्यालम्बनं क्रियतां वरम्‌।।

196

मौनं नालम्बितुं शक्यं, यदि सामान्यभावत:। तदा श्‍वासनिरोधस्यालम्बनं क्रियतां क्षणम्‌।।

197

नैव शक्यमिदं चापि, तदा स्थानं तदुत्सृजेत्‌। क्षणमन्यत्र गत्वा हि, स्थेयं क्रोधोपशान्तये।।

198

आवेगो वर्धते नूनमावेगं प्राप्य सम्मुखे। आवेगोऽप्रतिमल्लस्तु, क्षणेनैवोपशाम्यति।।

199

आवेग: सम्मुखं स्वस्य, प्रत्यावेगं प्रपश्यति। तदा स दीर्घजीवी स्यादभिमानपुरस्सरम्‌।।

200

आवेग: सम्मुखं स्वस्य, प्रत्यावेगं न पश्यति। तदा स मृत्युमाप्‍नोति, पश्‍चात्तापपुरस्सरम्‌।।

201

प्रमादं कुरुते भूय:, उक्त: सोढुं न शक्यते। अशान्तसहवासस्य, हेतुरेष महान्‌ भवेत्‌।।

202

तेन सहिष्णुर्भावो, मुनिना सम्यग्‌ विकासमानेय:। तेन विशदभावेन, यो लिप्सु: शान्त-सहवासम्‌।।

203

नानुभव: परिपक्‍वस्तेन ज्येष्ठानुभूतिरनुकार्या। स्वच्छन्दानां प्राय:, सहवासोऽशान्तिमारभते।।

204

मनोवैज्ञानिकी बाढमनुशासनपद्धति:। तदा स्वच्छन्दता नैव, वृद्धिं कदाचिदृच्छति।।

205

नाक्रोशपूर्वकं शिक्षादानेनान्यो विशुद्ध्यति। प्रतिकारात्मकं भावं, प्राप्य श्रोता विमुह्यति।।

206

प्रमादस्यानुभूतिं यो, भवेत्‌ कारयितुं क्षम:। तादृशं शिक्षकं प्राप्य, शुद्धिमेत्यनुशासित:।।

207

परिणामं प्रमादस्य, योनुभूतिं नयेत्‌ पटु। स लोहं गालयित्वैव, सन्धत्तेऽन्येन चायसा।।

208

आज्ञाशब्दप्रयोगस्तु,. कर्त्तव्यो न यदा कदा। यत्र प्रयुज्यते तत्र, मौनमेवानुगामिनाम्‌।।

209

अविवेको भवेत्‌ शैक्ष:, सोऽशान्तोऽशान्तिमाक्षिपेत्‌। तत्रोपायस्तथा कार्यों, विवेको येन वर्धते।।

210

नोपदेशो बहु कार्य:, निर्देशालम्बनं सृजेत्‌। उपदेशो मन: स्थूलं, प्रभावयति निश्‍चितम्‌।।

211

निर्देशो भावयत्येव, सूक्ष्मं मानसमद्भुतम्‌। तेन निर्देशविधिना, सविज्ञैरुपचर्यताम्‌।।

212

एवं नानाविधै: सम्यक्‌, प्रयत्‍नैर्मुनिसत्तमा:। प्राप्‍नुवन्तु प्रियं शान्तं सहवासं प्रतीक्षितम्‌।।

213

शासनतरुमुन्नेतुं, सुरसरितासलिलसेकनिभम्‌। पुण्यं हृदयोद्भूतं, भविता चिरमत्र एचसूत्रमिदम्‌।।

214

अस्त्यनुशास्ति: प्रथमा, तामनुधावत्यलं व्यवस्थापि। चर्या तामनुगच्छति, सालम्ब: शान्तसहवास:।।

215

व्युत्पादयितुमबोधान्‌, व्युत्पन्नान्‌ प्रेरयितुमवसन्नान्‌। ग्रन्थोऽयं प्राणायि, तुलसीगणिनोपलब्धतथ्येन।।

216

वैक्रमे द्विसहस्राब्दे, द्वाविंशत्युत्तरे वरे। सप्तम्यां माघशुक्लायां, हिसारे नगरे शुभे।।

217

आचार्याणां प्रसादेन, सर्वेषां पूर्ववर्तिनाम्‌। नित्यं नवनवोन्मेषो, वर्तते शासने महान्‌।।

218

जाता स्थिति: शुभनिकायचतुष्टयस्य, जाता निकायसचिवस्य वरा नियुक्ति:। जातो महोदयमहोत्सवसम्पदानां, सम्यग्‌ विकासविचयो विजयश्रियश्‍च।।