मुख्य सामग्री पर जाएँ
‹ स्तोत्र

सङ्घ-षट्त्रिंशिका

आचार्यश्री तुलसी

1

सङ्घ: शरणं त्राणं, गति: प्रतिष्ठा च साधनाधार:। तस्माद्‌ भूयो भद्रं भूयादनघाय धर्मसङ्घाय।

2

तीर्थ—सङ्घं संस्थाप्य, तीर्थकरत्वं प्रपेदिरे जिना: सर्वे। तस्माद्‌ भूयो भद्रं भूयादनघाय धर्मसङ्घाय

3

सङ्गतुलोत्तीर्णा ये, ते हि लभन्ते स्वसाध्यसंसिद्धिम्‌। तस्माद्‌ भूयो भद्रं भूयादनघाय धर्मसङ्घाय।।

4

क: सङ्घ: का स्थितिस्तस्य, किं वैशिष्ट्यं च विद्यते? संक्षेपेण विवक्षामि, श्रूयतां मेऽनुशासनम्‌।।

5

सारणा वारणा यत्र, सर्वदा समयोचिता। सापेक्षत्वेन जायेत, स सङ्घ सङ्घ उच्यते।।

6

प्रतिक्षणं प्रवर्तेत, घनं यत्र प्रशासनम्‌। आत्मानुशासनासीनं स सङ्घ: सङ्घ उच्यते।।

7

सामञ्जस्यं सहास्तित्वं, समेषां सहवर्तिनाम्‌। अन्योन्यापेक्षता यत्र, स सङ्घ: सङ्घ उच्यते।।

8

प्रस्तुता यत्र चैकार्थं सर्वे स्वर्थमेकक:। स्वयं सम्भागिता सात्म्यं, स सङ्घ: सङ्घ उच्यते।।

9

निपुणं यत्र नेतृत्वं, जागरूकमनीदृशम्‌। निर्णायकमति ख्यातं, स सङ्घ: सङ्घ उच्यते।।

10

दोषा न पालिता यत्र, न च दोषा उपेक्षिता:। संशोधिता भवेयुस्ते, स सङ्घ: सङ्घ उच्यते।।

11

न रूढ़तां समारूढ़:, मूढतां न समाश्रित:। मुदा माध्यस्थ्यमापन्न:, स सङ्घ: सङ्घ उच्यते।।

12

चुरावङ्गलिनिर्देश:, यत्र जाग्रत्‌ प्रजायते। तूष्णीका न च द्रष्टार:, स सङ्घ: सङ्घ उच्यते।।

13

नेर्ष्यासूया न मात्सर्यं, गुणिनां गुणगौरवे। प्रमोदश्‍च प्रसृमर:, स सङ्घ: सङ्घ उच्यते।।

14

विश्‍वस्ता यत्र स्वस्था: स्यु:, रुग्णा वृद्धास्तपस्विन:। शुश्रूषया समाश्‍वस्ता:, स सङ्घ: सङ्घ उच्यते।।

15

आस्थाभाव: .स्वभावाढ्यो, नेतारं प्रति प्रत्यहम्‌। यत्र प्रगतिमापन्न:, स सङ्घ: सङ्घ उच्यते।।

16

विनीता: नम्रतां नीता, यत्र साध्व्यो मुमुक्षव:। वात्सल्यवृद्धा वृद्धाश्‍च, स सङ्घ: सङ्घ उच्यते।।

17

अध्यात्मरसिका यत्र, प्रेक्षाध्यानपरायणा:। अनेके श्रमणा: सत्य:, स सङ्घ: सङ्घ उच्यते।।

18

यत्रालस्य-प्रमिला-प्रमाद-परिपन्थिन:। सन्तो जाग्रति सत्यश्‍च, स सङ्घ: सङ्घ उच्यते।।

19

आचारनिष्ठा आचाराऽराधका मानिता:श्रुता:। महत्वं प्राप्‍नुयुर्यत्रर, स सङ्घ: सङ्घ उच्यते।।

20

मूल्यं सुरक्षितं यत्र, परिवर्तनमीप्सितम्‌। सावकाशं समर्यादं, स सङ्घ: सङ्घ उच्यते।।

21

यत्र प्रवाहपातित्वं, नास्त्यस्तित्वप्रणाशकम्‌। विचिन्तनपरा वृत्ति:; स सङ्घ: सङ्घ उच्यते।।

22

मर्यादा सद्गुरोराज्ञा, यत्र प्राणाधिका मता। आदृता व्यापृता स्फीता, स सङ्घ: सङ्घ उच्यते।।

23

आज्ञासूत्रे निबद्धा: स्यु:, सर्वेऽपि साधनाधना:। मणका इव मालायां, स सङ्घ: सङ्घ उच्यते।।

24

महत्तवाकांक्षिता-व्यक्तिश्रिता, यत्र विवर्जिता। सम्मुखीनो गणादर्श:, स सङ्घ: सङ्घ उच्यते।।

25

विपत्तिरविनीतस्य, विनीतस्य च सम्पदा। यत्र द्वयं सुविज्ञातं, स सङ्घ: सङ्घ उच्यते

26

यत्र रत्‍नाधिका ज्येष्ठा, वन्द्यन्ते लघुभि: सदा। लघवो लालिता ज्येष्ठै: स सङ्घ: सङ्घ उच्यते।।

27

साधूनामिव साध्वीनामन्योन्यमभिवादनम्‌। यत्र स्यान्नम्रभावेन, स सङ्घ: सङ्घ उच्यते।।

28

साधूनामिव साध्वीनां, वैशिष्ट्यं सर्वसम्मतम्‌। पूज्यते संयमो यत्र, स सङ्घ: सङ्घ उच्यते।।

29

लिङ्गभेदाच्चतुर्भेदो, दिधाऽयं व्रतभेदत:। आचार्योऽधिपतिर्यत्र, स सङ्घ: सङ्घ उच्यते।।

30

समेषां सुलभो यत्र, विकासावसरो वर:। पार्थक्यमर्हतायां स्यात्‌, स सङ्घ: सङ्घ उच्यते।।

31

यत्र सर्वेऽपि नेतार:, सर्वे पण्डितमानिन:। सर्वे महत्त्वमिच्छन्ति, स सङ्घोऽसङ्घतां व्रजेत्‌

32

हीनामालोचनां नित्यं, कुर्वाणा: क्रमकर्षका:। तिष्ठन्ति तरुणा यत्र, स सङ्घोऽसङ्घतां व्रजेत्‌।।

33

क्षुद्रा श्छिद्रान्वेषिण: स्युर्यत्र स्वार्थपरायणा:। सुखशीलाश्‍च नि:शीला:, स सङ्घोऽसङ्घतां व्रजेत्‌।।

34

प्रदर्शनपरा: प्रायो, दृष्टिशून्या गुरुद्विष:। तुन्दपरिमृजो यत्र, स सङ्घोऽसङ्घतां व्रजेत्‌।।

35

तेरापन्थ: श्रेय: पन्था एको नितरां यत्र नियन्ता। अमलो यस्याचार: सार:, चिरजीवी स्यात्‌ सङ्घाकार:।।

36

भिक्षुचेतनावर्षे मघवशताब्दिमहोत्सवावसरे। सङ्घषट्‌त्रिंशिकेयं विहिता बीदासरे नवमगणिना।।