'नीरन्ध्रे भवकानने परिगलत्पञ्चाऽऽश्रवाम्भोधरे, नानाकर्मलतावितानगहने मोहान्धकारोद्धुरे। भरान्तानामिह देहिनां स्थिरकृते कारुण्यपुण्यात्मभि-। स्तीर्थेशै: प्रथिता: सुधारसकिरो रम्या गिर: पान्तु व:।।
शान्त सुधारस-भावना
स्फुरति चेतसि भावनया विना, न विदुषामपि शान्तसुधारस:। न च सुखं कृशमप्यमुना विना जगति मोहविषादविषाऽऽकुले।।
यदि भवभ्रमखेदपराङ्मुखं, यदि च चित्तमनन्तसुखोन्मुखम्। श्रृणुत तत्सुधिय:! शुभभावनाभृतरसं मम शान्तसुधारसम्।।
सुमनसो! मनसि श्रुतपावना, निदधतां द्व्यधिका दश भावना:। यदिह रोहति मोहतिरोहिताऽद्भुतगतिर्विदिता समतालता।।
आर्त्तरौद्रपरिणामपावक-प्लुष्टभावुकविवेकसौष्ठवेर। मानसे विषयलोलुपातमनां, क्व प्ररोहतितमां शमाऽङ्कुर:।।
यस्याशयं: श्रुतकृताऽतिशयं विवेक— पीयूषवर्षरमणीयरमं श्रयन्ते। सद्भावना: सुरलता न हि तस्य दूरे, लोकोत्तरप्रशमसौख्यफलप्रसूति:।।
अनित्यताऽशरणते, भवमेकत्वमन्यतां। अशौचमाश्रवं चाऽऽत्मन्! संवरं परिभावय।।
कर्मणो निर्जरां धर्मं, सुकृतां लोकपद्धतिम्। बोधिदुर्लभतामेता:, भावयन् मुच्यसे भवात्।।युग्मम्।।
वपुरवपुरिदं विदश्रलीलापरिचितमप्यतिभङ्गुरं नराणाम्। तदतिभिदुरयौवनाऽविनीतं, भवति कथं विदुषां महोदयाय?।।
आयुर्वायुतरत्तरङ्गतरलं लग्नापद: सम्पद:, सर्वेऽपीन्द्रियगोचराश्च चटुला: सन्ध्याभ्ररागादिवत्। मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तत्किं वस्तु भवे भवेदिह मुदामालम्बनं यत्सताम्।।
प्रातर्भ्रातरिहावदातरुचयो ये चेतनाऽचेतना:। दुष्टा विश्वमनोविनोदविदुरा भावा: स्वत: सुन्दरा:। तांस्तत्रैव दिने विपाकविरसान् हा! नश्यत: पश्यत— श्चेत: प्रेतहतं जहाति न भवप्रेमानुबन्धं मम।।
मूढ! मुह्यसि मुधा मूढ! मुह्यसि मुधा, विभवमनुचिन्त्य हृदि सपरिवारम्। कुशशिरसि नीरमिव गलदनिलकम्पितं, विनय! जानीहि जीवितमसारम्।।
पश्य भडङ्गुरमिदं विषयसुखसौह्रदं, पश्यतामेव नश्यति सहासम्। एतदनुहरति संसाररूपं रया— ज्ज्वलज्जलबालिकारुचिविलासम्।।
हन्त! हतयौवनं पुच्छमिव शौवनं कुटिलमति तदपि लघु दृष्टनष्टम्। तेन बत! परवशा: परवशाहतधिय:, कटुकमिह किन्न कलयन्ति कष्टम्?।।
यदपि पिण्याकतामङ्गमिदमुपगतं, भुवनदुर्जयजरापीतसारम्। तदपि गतलज्जमुज्झति मनो नाङि्गुनां, वितथमति कुथितमन्मथविकारम्।।
सुखमनुत्तरसुराऽवधि यदतिमेदुरं, कालतस्तंदपि कलयति विरामम्। कतरदितरत्तदा वस्तु सांसारिकं, स्थिरतरं भवति चिन्तय निकामम्।।५ यै: समं क्रीडिता ये च भृशमीडिता:, यै: सहाऽकृष्महि प्रीतिवादम्। तान् जनान् वीक्ष्य बत! भस्मभूयं गतान्, निर्विशङ्का: स्म इति धिक् प्रमादम्।।
असकुदुन्मिष्य निमिषन्ति सिन्धू मिवच्चेतनाऽचेतना: सर्वभावा:। इन्द्रजालोपमा: स्वजनधनसङ्गमा— स्तेषु रज्यन्ति मूढस्वभावा:।।
कवलयन्नविरतं जङ्गमाऽजङ्गमं, जगदहो! नैव तृप्यति कृतान्त:। मुखगतान् खादतस्तस्य करतलगतै— र्न कथमुपलप्स्यतेऽस्माभिरन्त:?।।
नित्यमेकं चतिदानन्दमयमात्मनो, रूपमभिरूप्य सुखमनुभवेयम्। प्रशमरसनवसुधापानविनयोत्सवो, भवतु सततं सतामिह भवेऽयम्।।
ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुरा:। तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठा— दत्राणा: शरणाय हा! दश दिश: प्रैक्षन्त दीनाऽऽनना:।।
तावदेव मदविभ्रममाली, तावदेव गुणगौरवशाली। यावदऽक्षमकृतान्तकराक्षैर्नेक्षितो विशरणो नरकीट:।।
प्रतापैर्व्यापन्नं गलितमथ तेजोभिरुदितै— र्गतं धैर्योद्योगै: श्लथितंमपि पुष्टेन वपुषा। प्रवृत्तं तद्ट्रव्यग्रहणविषये बान्धवजनै: जने कीनाशेन प्रसभमुपनीते निजवशम्।।
स्वजनजनो बहुधा हितकामं प्रीतिरसैरभिरामं, मरणदशावशमुपगतवन्तं रक्षति कोऽपि न सन्तम्। विनय! विधीयतां रे! श्रीजिनधर्म: शरणं, अनुसन्धीयतां रे! शुचितरचरणस्मरणम्।।
तुरगरथेभनराऽऽवृतिकलितं, दधतं बलमस्खलितम्। हरति यमो नरपतिमपि दीनं, मैनिक इव लघु मीनम्।।
प्रविशति वज्रमये यदि सदने, तृणमथ घटयति वदने। तदपि न मुञ्चति हतसमवर्त्ती, निर्दयपौरुषनर्त्ती।।
विद्यामन्त्रमहीषधिसेवां, सृजतु वशीकृतदेवाम्। रसतु रसायनमुपचयकरणं तदपि न मुञ्चति मरणम्।।
वपुषि चिरं निरुणद्धि समीरं, पतति जलधिपरतीरम्। शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा।।
सृजतीमसितशिरोरुहललितं, मनुजशिरो वलिपलितम्। को विदधानां भूघनमरसं प्रभवति रोद्धुं जरसम्।।
उद्यत उग्ररजा जनकाय:, क: स्यात्तत्र सहाय:। एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम्।।
शरणमेकमनुसर चतुरङ्ग, परिहर ममतासङ्गम्। विनय! रचय शिवसौख्यनिधानं, शान्तसुधारसपानम्।।
इतो लोभ: क्षोभं जनयति दुरन्तो दव इवो— ल्लसल्लाभाम्भोभि: कथमपि न शक्य: शमयितुम्। इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थै: स्थेयं विविधभयभीमे भववने?।।
गलत्येका चिन्ता भवति पुनरन्या तदधिका, मनोवाक्कायेहाविकृतिरतिरोषात्तरजस: विपद्गर्त्ताऽऽवर्ते झटिति पतयालो: प्रतिपदं, न जन्तो: संसारे भवति कथमप्यर्तिविरति:।।
सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहत:। सुखाऽऽभासैर्यावत् स्पृशति कथमप्यर्तिविरतिं, जरा तावत् कार्य कवलयति मृत्यो: सहचरी।।
'विभ्रान्तचित्तो बत! बम्भ्रमीति, पक्षीव रुद्धस्तनुपञ्जरेंऽगी। नुन्नो नियत्याऽतनुकर्मतन्तुसन्दानित: सन्निहितान्तकौतु:।।
अनन्तानू पुद्गलावत्तननन्तानन्तरूपभृत्। अनन्तशो भ्रमत्येव, जीवोऽनादिभवार्णवे।।
कलय संसारमतिदारुणं, जन्ममरणादिभयभीत रे! मोहरिपुणेह सगलग्रहं, प्रतिपदं विपदमुपनीत रे!।।
स्वजनतनयादिपरिचयगुणैरिह मुधा बध्यसे मूढ रे!। प्रतिपदं नवनवैरनुभवै:, परिभवैरसकृदुपगूढ रे!।।
घटयसि क्वचन मदमुन्नते: क्वचिदहो! हीनतादीन रे!। प्रतिभवं रूपमपरापरं, वहसि बत! कर्मणाऽधीन रे!।।
जातत शैशवदशापरवशो, जातु तारुष्यमदमत्त रे! जातु दुर्जयजराजर्जरो, जातु पितृपतिकराऽऽयत्त रे!।।
व्रजति तनयोऽपि ननु जनकतां, तनयतां व्रजति पुनरेष रे! भावयन् विकृतिमिति भवगतेस्त्यजतमां नृभवशुभशेष रे!।।
यत्र दु:खार्तिगददवलवैरनुदिनं दह्यसे जीव रे! हन्त! तत्रैव रज्यसि चिरं, मोहमदिरामदक्षीब रे!।।
दर्शयन् किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे! विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे!।।
सकलसंसारभयभेदकं जिनवचो मनसि निदधान रे! विनय! परिणमय नि:श्रेयसं, विहितशमरससुधापान रे!।८।।
एक एव भगवानयमात्मा, ज्ञानदर्शनतरङ्गसरङ्ग:। सर्वमन्यदुपकल्पितमेतद्, व्याकुलीकरणमेव ममत्वम्।।
अबुधै: परभावलालसा-लंसदऽज्ञानदशावशात्मभि:। परवस्तुषु हा! स्वकीयता, विषयाऽऽवेशवशाद् विकल्प्यते।।
कृतिनां दयितेति चिन्तनं, परदारेषु यथा विपत्तये। विविधार्तिभयावहं तथा, परभावेषु ममत्वभावनम्।।
अधुना परभावसंवृतिं, हर चेत:परितोऽवगुण्ठिताम्। क्षणमात्मविचारचन्दन-द्रुमवातोर्मिरसा: स्पृशन्तु माम्।।
एकतां समतोपेतामेनामात्मन्! विभावय। लभस्व परमानन्दसम्पदं नमिराजवत्।।
विनय! चिन्तय वस्तुतत्त्वं, जगति निजमिह कस्य किम्?। भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम्?।।
एक उत्पद्यते तनुमानेक एव विपद्यते। एक एव हि कर्म चिनुते, सैकक: फलमश्नुते।।
यस्य यावान् परपरिग्रह-विविधममतावीवध:। जलधिविनिहितपोतयुक्त्या, पतति तावदसावध:।।
स्वस्वभावं मद्यमदितो, भुवि विलुप्य विचेष्टते। दृश्यतां परभावघटनात् पतति लुठति विजृम्भते।।
पश्य काञ्चनमितरपुद्गलमिलितमञ्चति कां दशाम्। केवलस्य तु तस्य रूपं, विदितमेव भवादृशाम्।।
एवमात्मनि कर्मवशतो, भवति रूपमनेकधा। कर्ममलरहिते तुं भगवति, भासते काञ्चनविधा-।।
ज्ञानदर्शनचरणपर्यवपरिवृत: परमेश्वर:। एक एवानुभवसदने, स रमतामविनशवर:।।
रुचिरसमताऽमृतरसं क्षणमुदितमास्वादय मुदा। विनय! विषयातीतसुखरसरतिरुदञ्चतु ते सदा।।
पर: प्रविष्ट: कुरुते विनाशं, लोकोक्तिरेषा न मृषेति मन्ये। निर्विश्य कर्माणुभिरस्य किं किं, ज्ञानात्मनो नो समपादि कष्टम्।।
खिद्यसे ननु किमन्यकथार्त्त:, सर्वदैव ममतापरतन्त्र:। चिन्तयस्यनुपमान् कथमात्मन्! आत्मनो गुणमणीन्न कदापि।।
यस्मै त्वं यतसे विभेषि च यतो यत्राऽनिशं मोदसे, यद्यच्छोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे। स्निग्धो येषु निजस्वभावममलं निर्लोठ्य लालप्यसे, तत्सर्वं परकीयमेव भगवन्नात्मन्! न किञ्चित्तव।।
दुष्टा: कष्टकदर्थना: कति न ता: सोढास्त्वया संसृतौ, तिर्यग्नारकयोनिषु प्रतिहतश्छिन्नो विभिन्नो मुहु:। सर्वं तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा! रज्यन् मुह्यसि मूढ! तानुपचरन्नात्मन्! न कि लज्जसे?।।
ज्ञानदर्शनचारित्रकेतनां चेतनां विना। सर्वमन्यद् विनिश्चित्य, यतस्व स्वहिताऽऽप्तये।।
विनय! निभालय निजभवनं, तनुधनसुतसदनस्वजनादिषु। किं निजमिह कुगतेरवनम्।।
येन सहाश्रयसेऽतिविमोहादिदमहमित्यविभेदम्। तदपि शरीरं नियतमधीरं, त्यजति भवन्तं धृतखेदम्।।
जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुम्बम्। तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम्।।
त्यज ममतां परितापनिदानं, परपरिचयपरिणामम्। भज निस्सङ्गतया विशदीकृतमनुभवसुखरसमभिरामम्।।
पथि पथि विविधपथै: पथिकै: सह, कुरुते क: प्रतिबन्धम्? निजनिजकर्मवशै: स्वजनै: सह, किं कुरुषे ममताबन्धम्?।।
प्रणयविहीने दधदभिषङ्गं, सहते बहुसन्तापम्। त्वयि निष्प्रणये पुद्गलनिचये, वहसि मुधा ममतातापम्।।
त्यज संयोगं नियतवियोगं, कुरु निर्मलमवधानम्। नहि विदधान: कथमपि तृप्यसि, मृगतृष्णाघनरसपानम्।।
भज जिनपतिमसहायसहायं, शिवगतिसुगमोपायम्। पिब गदशमन परिहतवमन, शान्तसुधारसमनपायम्।।
सच्छिद्रो मदिराघट: परिगलत्तल्लेशसङ्गाऽशुचि:, शुच्याऽञमृद्य मृदा बहि: स बहुशो धौतोऽपि गङ्गोदकै:। नाधत्ते शुचितां यथा तनुभृतां कायो निकायो महान्, बीभत्साऽस्थिपुरीषमूत्ररजसां नाऽयं तथा शुद्धयति।।
स्नायं स्नायं पुनरपि पुन: स्नान्ति शुद्धाभिरद्वि— र्वारं वारं बत! मलतनुं चन्दनैरर्चयन्ते। मूढात्मानो वयमपमला: प्रीतिमित्याश्रयन्ते, नो शुद्धयन्ते कथमवकर: शक्यते शोद्धुमेवम्?।।
कर्पूरादिभिरर्चितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त! पिशुन: सौजन्यमालम्बते। देहोप्येष तथा जहाति न नृणां स्वाभाविकीं विस्रतां, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते।।
यदीयसंसर्गमवाप्य सद्यो, भवेच्छुचीनामशुचित्वमुच्चै:। अमेध्ययोनेर्वपुषोऽस्य शौचसङ्कल्पमोहोऽयमहो! महीयान्।।
इत्यवेत्य शुचिवादमतथ्यं, पथ्यमेव जगदेकपवित्रम्। शोधनं सकलदोषमलानां, धर्ममेव हृदये निदधीथा:।।
भावय रे! वपुरिदमतिमलिनं, विनय! विबोधय मानसनलिनम्। पावनमनुचिन्तय विभुमेकं, परममहोमयमुदितविवेकम्।।
दम्पतिरेतोरुधिरविवर्त्ते, किं शुभमिह मलकश्मलगर्त्ते। भृशमपि पिहितं स्रवति विरूपं, को बहु मनुतेऽवस्करकूपम्।।
भजति सचन्द्रं शुचिताम्बूलं, कर्तुं मुखमारुतमनुकूलम्। तिष्ठति सुरभि कियन्तं कालं, मुखमसुगन्धि जुगुप्सितलालम्।।
असुरभिगन्धवहोऽन्तरचारी, आवरितुं शक्यो न विकारी। वपुरुपजिघ्रसि वारं वारं, हसति बुधस्तव शौचाचारम्।।
द्वादशनवरन्ध्राणि निकामं, गलदशुचीनि न यान्ति विरामम्। यत्र वपुषि तत्कलयसि पूतं, मन्ये तब नूतनमाकूतम्।।
अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सां जनयति हन्नम्। पुंसवनं धैनवमपि लीढं, भवति विगर्हितमति जनमीढम्।।
केवलमलमयपुद्गलनिचये, अशुचीकृतशुचिभोजनसिचये। वपुषि विचिन्तय परमिह सारं, शिवसाधनसामर्थ्यमुदारम्।।
येन विराजितमिदमतिपुण्यं, तच्चिन्तय चेतननैपुण्यम्। विशदागममधिगम्य निपानं, विरचय शान्तसुधारसपानम्।।
यथा सर्वतो निझरैरापतद्भि:, प्रपूर्येत सद्य: पयोभिस्तटाक:। तथैवाश्रवै: कर्मभि: संभृतोऽङ्गी, भवेद् व्याकुलश्चञ्चल: पड्किलश्च।१।। यावत्किञ्चिदिवानुभूय तरसा कर्मेह निर्जीर्यते, तावच्चाश्रवशत्रवोऽनुसमयं, सिञ्चन्ति भूयोऽपि तत्। हा! कष्टं कथमाश्रवप्रतिभटा: शक्या निरोद्धुं मया?। संसारादतिदारुणान्मम हहा! मुक्ति: कथं भाविनी?।।
मिथ्यात्वाऽविरतिकषाय-योगसंज्ञा— श्चत्वार: सुकृतिभिराश्रवा: प्रदिष्टा:। कर्माणि प्रतिसमयं स्फुटैरमीभि— र्बध्नन्तो भ्रमवशतो भ्रमन्ति जीवा:।।
इन्द्रियाऽव्रतकषाययोगजा: पञ्चपञ्चचतुरन्वितास्त्रय:। पञ्चविंशतिरसत्क्रिया इति, नेत्रवेदपरिसंख्ययाप्यमी।।
३ड्त्याश्चवाणामधिगम्य तत्त्वं, निश्चित्य सत्तं श्रुतिसन्निधानात्। एषां निरोधे विगलद्विरोधे, सर्वात्मना द्राग्यतितव्यमात्मन्!।।
परिहरणीया रे! सुकृतिभिराश्रवा, हृदि समतामवधाय। प्रभवन्त्येते रे! भृशमुच्छुङ्खला, विभुगुणविभववधाय।।
कुगुरुनियुक्ता रे! कुमतिपरिप्लुता, शिवपुरपथमपहाय। प्रयतन्तेऽमी रे! क्रियया दुष्ट्या, प्रत्युत शिवविरहाय।।
अविरतचित्ता रे! विषयवशीकृता, विषहन्ते विततानि। इह परलोके रे! कर्मविपाकजान्यविरलदु:खशतानि।।
करिझषमधुपा रे! शलभमृगादयो, विषयविनोदरसेन। हन्त! लभन्ते रे! विविधा वेदना, बत! परिणतिविरसेन।।
उदितकषाया रे! विषयवशीकृता, यान्ति महानरकेषु। परिवर्तन्ते रे! नियतमनन्तशो, जन्मजरामरकेषु।।
मनसा वाचा रे! वपुषा चञ्चला, दुर्जयदुरितभरेण। उपलिप्यन्ते रे! तत आश्रवजये, यततां कृतमपरेण।।
शुद्धा योगा रे! यदपि यतात्मनां, स्रवन्ते शुभकर्माणि। काञ्चननिगडांस्तान्यपि जानीयाद्, हतनिर्वृतिशर्माणि।।
मोदस्वैवं रे! साश्रवपाप्मनां, रोधे धियमाधाय। शान्तसुधारसपानमनारतं, विनय! विधाय विधाय।।
येन येन य इहाश्रवरोध:, सम्भवेन्नियतमौपयिकेन। आद्रियस्व विनयोद्यतचेतास्तत्तदान्तरदृशा परिभाव्य।।
संयमेन विषयाऽविरतत्वे, दर्शनेन वितथाऽभिनिवेशम्। ध्यानमार्तमथ रौद्रमजस्रं, चेतस: स्थिरतया च निरुन्ध्या:।।
क्रोधं क्षान्त्या मार्दवेनाभिमानं, हन्या मायामार्जवेनोज्ज्चलेन। लोभं वारांराशिरौद्रं निरुन्ध्या: सन्तोषेण प्रांशुना सेतुनेव।।
गुप्तिभिस्तिसृभिरेवमजय्यान् त्रीन विजित्य तरसाऽधमयोगान्। साधु संवरपथे प्रयतेथा, लप्स्यसे हितमनीहितमिद्धम्।।
एवं रुद्धेष्वमलहृदयैराश्रवेष्वाप्तवाक्य— श्द्धाचञ्चत्सितपटपटु: सुप्रतिष्ठानशाली। शुद्धैर्योगैर्जवनपवनै: प्रेरितो जीवपोत:, स्रोतस्तीर्त्वा भवजलनिधेर्याति निर्वाणपुर्य्याम्।।
श्रृणु शिवसुखसाधनसदुपायं, सदुपायं रे! सदुपायम्। ज्ञानादिकपावनरत्न्रय-परमाराधनमनपायम्।।
विषयविकारमपाकुरु दूरं, क्रोध मानं सहमायम्। लोभरिपुं च विजित्य सहेलं, भज संयमगुणमकषायम्।।
उपशमरसमनुशीलय मनसा, रोषदहनजलदप्रायम्। कलय विरागं धृतपरभागं, हृदि विनयं नायं नायम्।।
आर्त्त रौद्रं ध्यानं मार्जय, दह विकल्परचनानायम्।। यदियमरुद्धा मानसवीथी, तत्त्वविद: पन्था नाऽयम्।।
संयमयोगैरवहितमानसशुद्धया चरितार्थय कायम्। नानामतरुचिगहने भुवने, निश्चिनु शुद्धपथं नायम्।।
ब्रह्मव्रतमङ्गीकुरु विमलं बिभ्राणं गुणसमवायम्। उदितं गुरुवदनादुपदेशं, संगृहाण शुचिमिव रायम्।।
संयमवाङ्मयकुसुमरसैरति सुरभय निजमध्यवसायम्। चेतनमुपलक्षय कृतलक्षणज्ञानचरणगुणपर्यायम्।।
वदनमलङ्कुरु पावनरसनं, जिनचरितं गायं गायम्। सविनयशान्तसुधारसमेनं, चिरं नन्द पायं पायम्।।
यन्निर्जरा द्वादशधा निरुक्ता, तद् द्वादशानां तपसां विभेदात्। हेतुप्रभेदादिह कार्यभेद:, स्वातन्त्र्यतस्त्वेकविधैव सा स्यात्।।
काष्ठोपलादिरूपाणां, निदानानां विभेदत:। वहलिर्ययैकरूपोऽपि पृथग्रूपों विवक्ष्यते।।
निर्जराऽपि दादशधा, तपोभेदैस्तथोदिता। कर्मनिर्जरणात्मा तु, सैकरूपैव वस्तुत:।।
निकाचितानामपि कर्मणां यद्, गरीयसां भूधरदुर्द्धराणाम्। विभेदने वज्रमिवातितीकव्रं, नमोस्तु तस्मै तपसेऽद्भुताय।।
किमुच्यते सत्तपस: प्रभाव:, कठोरकर्मार्जितकिल्विषोऽपि। दृढ़प्रहारीव निहत्य पापं, यतोऽपवर्ग लभतेऽचिरेण।।
यथा सुवर्णस्य शुचि स्वरूपं, दीप्त: कृशानु: प्रकटीकरोति। तथात्मन: कर्मरजो निहत्य, ज्योतिस्तपस्तद् विशदीकरोति।।
'बाह्येनाभ्यन्तरेण प्रथितबहुभिदा जीयते येन शत्रु: श्रेणी बाह्यन्तरङ्गा भरतनृपतिवद् भावलब्धद्रढिम्ना। यस्मात् प्रादुर्भवेयु: प्रकटितविभवा लब्धय: सिद्धयश्च, वन्दे स्वर्गाऽपवर्गाऽर्पणपटु सततं तत्तपो विश्ववन्द्यम्।।
विभावय विनय! तपोमहिमानं, बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम्।।
याति घनाऽपि घनाघनपटली, खरपवनेन विरामम्। भजति तथा तपसा दुरिताली, क्षणभड्गुरपरिणामम्।।
वाञ्छितमाकर्षति दूरादपि, रिपुमपि सृजति वयस्यम्। तप इदमाश्रय निर्मलभावादागमपरमरहस्यम्।।
अनशनमूनोदरतां वृत्तिहासं रसपरिहारम्। भज सांलीन्यं कायक्लेशं, तप इति बाह्ममुदारम्।।
प्रायश्चित्तं वैयावृत्यं स्वाध्यायं विनयं च। कायोत्सर्गं शुद्धं ध्यानमाभ्यन्तरमिदमञ्च।।
शमयति तापं गमयति पापं, रमयति मानसहंसम्। हरति विमोहं दुरारोहं, तप इति विगताशंसम्।।
संयमकमलाकार्मणमुज्ज्वलशिवसुखसत्यङ्कारम् चिन्तितचिन्तामणिमाराधय, तप इह वारं वारम्।।
कर्मगदौषधमिदमिदमस्य च, जिनपतिमतमनुपानम्। विनय! समाचर सौख्यनिधानं, शान्तसुधारसपानम्।।
दानं च शीलं च तपश्च भावो, धर्मश्चतुर्धा जिनबान्धवेन। निरूपितो यो जगतां हिताय, स मानसे मे रमतामजस्रम्।।
सत्यक्षमामार्दवशौचसङ्गत्यागार्जवब्रह्मविमुक्तियुक्त: य: संयमोऽकिञ्चनतोपगूढश्चारित्रधर्मो दशधाऽयमुक्त:।।
यस्य प्रभावादिह पुष्पवन्तौ, विश्वोपकाराय सदोदयेते। ग्रीष्मोष्मभीष्मामुदितस्तडित्वान्, काले समाश्वासयति क्षितिं च।।
उल्लोलकल्लोलकलाविलासैर्नाप्लावयत्यम्बुनिधि: क्षितिं यत्। न घ्नन्ति यद्व्याघ्रमरुद्ववाद्या: धर्मस्य सर्वोऽप्यनुभाव एष:।।
यस्मिन्नेव पिताऽहिताय यतते भ्राता च माता सुत:, सैन्यं दैन्यमुपैति चापचपलं यत्राऽफलं दौर्बलम्। तस्मिन् कष्टदशाविपाकसमये धर्मस्तु संवर्मित:, सज्ज: सज्जन एष सर्वजमतस्त्राणाय बद्धोद्यम:।।
त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं, योऽत्राऽमुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रद:। येनाऽनर्थकदर्थना निजमह:सामर्थ्यतो व्यर्थिता, तस्मै कारुणिकाय धर्मविभवे भक्तिप्रणामोऽस्तु मे।।
प्राज्यं राज्यं सुभगदयिता नन्दना नन्दनानां, रम्यं रूपं सरसकविताचातुरी सुस्वरत्वम्। नीरोगत्वं गुणपरिचय: सज्जनत्वं सुबुद्धि:, किन्नु ब्रूम: फलपरिणतिं धर्मकल्पद्टुमस्य।।
पालय पालय रे! पालय मां जिनधर्म! मङ्गलकमलाकेलिनिकेतन! करुणाकेतन! धीर! शिवसुखसाधन! भवभयबाधन! जगदाधार! गभीर!।।
सिञ्चति पयसा जलधरपटली, भूतलममृतमयेन। सूर्याचन्द्रमसावुदयेते, तब महिमातिशयेन।।
निरालम्बमियमसदाधारा, तिष्ठति वसुधा येन। तं विश्वस्थितिमूलस्तम्भं, संसेवे विनयेन।।
दानशीलशुभभावतपोमुख-चरितार्थीकृतलोक:। शरणस्मरणकूतामिह भविनां, दूरीकृतभयशोक:।।
क्षमासत्यसन्तोषदयादिक-सुभगसकलपरिवार:। देवासुरनरपूजितशासन-कृतबहुभवपरिहार:।।
बन्धुरबन्धुजनस्य दिवानिशमसहायस्य सहाय:। भ्राम्यति भीमे भवगहनेऽङ्गी, त्वां बान्धवमपहाय।।
रङ्गति गहनं जलति कृशानु:, स्थलति जलधिरचिरेण। तव कृपयाऽखिलकामितसिद्धिर्बहुना किन्नु परेण।।७ इह यच्छसि सुखमुदितदशाङ्गं, प्रेत्येन्द्रादिपदानि। क्रमतो ज्ञानादीनि च वितरसि, नि:श्रेयससुखदानि।।
सर्वतन्त्रनवनीत! सनातन! सिद्धिसदनसोपान! जय जय विनयवतां प्रतिलम्भितशान्तसुधारसपान!।९।।
सप्ताऽधोऽधो विस्तृता या: पृथिव्य— श्छत्राकारा: सन्ति रलप्रभाद्या:। ताभि: पूर्णो योऽस्त्यधोलोक एतौ, पादौ यस्य व्यायतौ सप्तरज्जू:।।
तिर्यग्लोको विस्तृतो रज्जुमेकां, पूर्णो वीपैरर्णवान्तैरसंख्यै:। यस्य ज्योतिश्चक्रकाञ्चीकलापं, मध्ये कार्श्यं श्रीविचित्रं कटित्रम्।।
लोकेऽथोर्ध्व ब्रह्मलोके द्युलोके, यस्य व्याप्तौ कूर्परौ पञ्चरज्जू:। लोकस्यान्तो विस्तृतो रम्जुमेकां, सिद्धज्योतिश्चित्रको यस्य मौलि:।।
यो वैशाखस्थानकस्थायिपाद:, श्रोणीदेशे न्यस्तहस्तद्वयश्च। कालेऽनादौ शश्वदूर्ध्वदमत्वाद्, बिभ्राणोऽपि श्रान्तमुद्रामखिन्न:।।
सोऽयं ज्ञेय: पूरुषो लोकनामा, षड्द्रव्यात्माऽकृत्रिमोऽनाद्यनन्त:। धर्माऽधर्माकाशकालात्मसंज्ञै— र्द्रव्यै: पूर्ण: सर्वत: पुद्गतैश्च।।
रङ्गस्थानं पुद्गलानां नरानां, नानारूपैर्नृत्यतामात्मनां च। कालोद्योगस्वस्वभावादिभावै:, कर्मातोद्यैर्नर्त्तितानां नियत्या।।
एवं लोको भाव्यमानो विविक्त्या, विज्ञाना स्यान्मानसस्यैर्यहेतु:। स्थैर्यं प्राप्ते मानसे चात्मनीनां, सुप्राप्यैवाऽध्यात्मसौख्यप्रसूति: hn विनय! विभावय शाश्वतं, हृदि लोकाकाशम्। सकलचराचरधारणे, परिणमदवकाशम्।।
लसदलोकपरिवेष्टितं, गणनाऽतिगमानम्। पञ्चभिरपि धर्मादिभि:, सुघटितसीमानम्।।
समवघातसमये जिनै:, परिपूरितदेहम्। असुमदणुकविविधक्रियागुणगौरवगेहम्।।
एकरूपमपि पुद्गलै:, कृतविविधविवर्तम्। क्वचन शैलशिखरोन्नतं, क्वचिदवनतगर्तम्।।
क्वचन तविषमणिमन्दिरैरुदितोदितरूपम्। घोरतिमिरनरकादिभि:, क्वचनाऽतिविरूपम्।।
क्वचिदुत्सवमयमुज्ज्वलं, जयमङ्गलनादम्। क्वचिदमन्दहाहारवं पृथुशोकविषादम्।।
बहुपरिचितमनन्तशो, निखिलैरपि सत्त्वै:। जन्ममरणपरिवर्त्तिभि:, कृतमुक्तममत्यै:।।
इह पर्यटनपराइमुखा:, प्रणमत भगवन्तम्। शान्तसुधारसपानतो, धृतविनयमवन्तम्।।
'यस्माद् विस्मापयितसुमन:स्वर्गसम्पद्विलास— प्राप्तोल्लासा: पुनरपि जनि: सत्कुले भूरिभोगे। ब्रह्माद्वैतप्रगुणपदवीप्रापकं नि:सपलं, तद्दुष्प्रापं भृशमुरुधिय:! सेव्यतां बोधिरत्मम्।।
अनादौ निगोदान्धकूपे स्थिताना— मजस्रं जनुर्मृत्युदु:खार्दितानाम्। परीणामशुद्धि: कुतस्तादृशी स्याद् यया हन्त! तस्माद् विनिर्यान्ति जीवा:।।
ततो निर्गतानामपे स्थावरत्वं, त्रसत्वं पुनर्दुर्लभं देहभाजाम्। त्रसत्वेऽपि पञ्चाक्षपर्याप्तसंज्ञि— स्थिरायुष्यवद् दुर्लभं मानुषत्वम्।।
तदेतन्मनुष्यत्वमाप्याऽपि मूढो, महामोहमिथ्यात्वमायोपगूठ:। भ्रमन् दूरमग्नो भवागाधगर्ते, पुन: क्व प्रपद्येत तद् बोधिरत्नम्।।
विभिन्ना: पन्थान: प्रतिपदमनल्पाश्च मतिन:, कुयुक्तिव्यासङ्गैर्निजनिजमतोल्लासरसिका: न देवा: सान्निध्यं विदधति न वा कोऽप्यतिशय— स्तदेवं कालेस्मिन् य इह दृढ़धर्मा स सुकृती।।
यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरं, यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम्। यावच्चायुरभङ्गुरं निजहिते तावद् बुधैर्यत्यतां, कासारे स्फुटिते जले प्रचलिते पालि: कथं बध्यते?।।
विविधोपद्रवं देहमायुश्च क्षणभङ्गुरम्। कामालम्ब्य धृतिं मूढ़े: स्वश्रेयसि विलम्ब्यते।।
बुध्यतां बुध्यतां बोधिरतिदुर्लभा, जलधि-जलपतितसुररत्नयुक्त्या। सम्यगाराध्यतां स्वहितमिह साध्यतां, बाध्यतामधरगतिरात्मशक्त्या।।
चक्रिभोज्यादिरिव नरभवो दुर्लभो, भ्राम्यतां घोरसंसारकक्षे बहुनिगोदादिकायस्थितिव्यायते मोहमिथ्यात्वमुखचौरलक्षे।।
लब्ध इह नरभवोऽनार्यदेशेषु य:, स भवति प्रत्युताऽनर्थकारी जीवहिंसादिपापाश्रवव्यसनिनां, माघवत्यादिमार्गाऽनुसारी।।
आर्यदेशस्पृशामपि सुकुलजन्मनां, दुर्लभा विविदिषा धर्मतत्त्वे रतपरिग्रहभयाहारसंज्ञार्तिभि:, हन्त! मग्नं जगद्दु:स्थितत्वे।।
विविदिषायामपि-श्रवणमतिदुर्लभं, धर्मशास्त्रस्य गुरुसन्निधाने— वितथविकथादितत्तद्रसावेशतो, विविधविक्षेपमलिनेऽवधाने।।
धर्ममाकर्ण्य सम्बुध्य तत्रोद्यमं, कुर्वतो वैरिवर्गोऽन्तरङ्ग: रागरोषश्रमालस्य निद्रादिको, बाधते निहतसुकृतप्रसङ्ग:।।
चतुरशीतावहो! योनिलक्षेष्वियं, कव त्वयाकर्णिता धर्मवार्ता प्रायशो जगति जनता मिथो विवदते ऋद्धि-रस-सात-गुरु-गौरवार्ता।।
एवमतिदुर्लभात्राप्य दुर्लभतमं, बोधिरलं सकलगुणनिधानम्। कुरु गुरु-प्राज्य-विनय-प्रसादोदितं, शान्तरससरसपीयूषपानम्।।
सद्धर्मध्यानसन्धान-हेतव: श्रीजिनेश्वरै:। मैत्रीप्रभृतय: प्रोक्ताश्चतस्त्रो भावना: परा:।।
मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत्। धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम्।।
मैत्री परेषां हितचिन्तनं यद्, भवेत् प्रमोदो गुणपक्षपात:। कारुण्यमार्ताङ्गिरुजां जिहीर्षेत्युपेक्षणं दुष्टधियामुपेक्षा।।
सर्वत्र मैत्रीमुपकल्पयात्मन्!, चिन्त्यो जगत्यत्र न कोऽपि शत्रु:। कियद्दिनस्थायिनि जीवितेऽस्मिन् किं खिद्यसे वैरिधिया परस्मिन्।।
सर्वेऽप्यमी बन्धुतयाऽनुभूता:, सहस्रशोऽस्मिन् भवता भवाब्धौ। जीवास्ततो बन्धव एव सर्वे,न कोऽपि ते शत्रुरिति प्रतीहि।।
सर्वे पितृभ्रातृपितृव्यमातृ-पुत्राङ्गजास्त्रीभगिनीस्नुषात्वम्। जीवा: प्रपन्ना बहुशस्तदेतत्, कुटुम्बमेवेति परो न कश्चित्।।
एकेन्द्रियाद्या अपि हन्त! जीवा: पञ्चेन्द्रियत्वाद्यधिगत्य सम्यक्। बोधिं समाराध्य कदा लभन्ते, भूयो भवभ्रान्तिभियाविरामम्।।
या रागरोषादिरुजो जनानां, शाम्यन्तु-वाक्कायमनोद्रुहस्ता:। सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे सुखिनो भवन्तु।८।। विनय! विचिन्तय मित्रतां, त्रिजगति जनतासु। कर्मविचित्रतया गतिं, विविधां गमितासु।।
सर्वे ते प्रियबान्धवा, नहि रिपुरिह कोऽपि। मा कुरु कलिकलुषं मनो, निजसुकृतविलोपि।।
यदि कोपं कुरुते परो, निजकर्मवशेन। अपि भवता किं भूयते हृदि रोषवशेन।।
अनुचितमिह कलहं सतां, त्यज समरसमीन!। भज विवेककलहंसतां, गुणपरिचयपीन!।।
शयुजना: सुखिन: समे, मत्सरमपहाय। सन्तु गन्तुमनसोऽप्यमी, शिवसौख्यगृहाय।।
सकृदपि यदि समतालवं, हृदयेन लिहन्ति। विदितरसास्तत इह रतिं, स्वत एव वहन्ति।।
किमुत कुमतमदमूर्च्छिता, दुरितेषु पतन्ति। जिनवचनानि कथं हहा! न रसादुपयन्ति।।
परमात्मनि विमलात्मना, परिणम्य वसन्तु। विनय! समामृतपानतो जनता विलसन्तु।।
धन्यास्ते वीतरागा: क्षपकपथगतिक्षीणकर्मोपरागा— स्त्रैलोक्ये गन्धनागा: सहजसमुदितज्ञानजाग्रद्विरागा:। अध्यारुह्यात्मशुद्धया सकलशशिकलानिर्मलध्यानधारा— मारान्मुक्ते: प्रपन्ना: कृतसुकृतशतोपार्जिताईन्त्यलक्ष्मीम्।।
तेषां कर्मक्षयोत्थै-रतनुगुणगणैर्निर्मलात्मस्वभावै— गयं गायं पुनीम: स्तवनपरिणतैरष्टवणस्पिदानि। धन्यां मन्ये रसज्ञां जगति भगवत:स्तोत्रवाणीरसज्ञा-। मज्ञां मन्ये तदन्यां वितथजनकथाकार्यमौखर्यमग्नाम्।।
निर्गन्थ स्तेऽपि धन्या गिरिगहनगुहागहरान्तर्निविष्टा:, धर्मध्यानाऽवधाना: समरससुहिता: पक्षमासोपवासा:। येऽन्येऽपि ज्ञानवन्त: श्रुतविततधियो दत्तधर्मोपदेशा:, शान्ता दान्ता जिताक्षा जगति जिनपते: शासनं भासयन्ति।।
दानं शीलं तपो ये विदधति गृहिणो भावनां भावयन्ति, धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रद्धया राधयन्ति। साध्य: श्राद्धयश्च धन्या: श्रुतविशदधिया शीलमुद्भावयन्त्य— स्तान् सर्वान्मुक्तगर्वा: प्रतिदिनमसकृद् भाग्यभाज: स्तुवन्ति।।
मिथ्यादृशामप्युपकारसारं, सन्तोषसत्यादिगुणप्रसारम्। वदान्यतावैनयिकप्रकारं, मार्गानुसारीत्यनुमोदयाम:।।
जिह्वे! प्रह्मीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना, भूयास्तामन्यकीर्ततिश्रुतिरसिकतया मेऽद्य कर्णौ सुकर्णौ। वीक्ष्याऽन्यप्रौढलक्ष्मीं द्रुतमुपचिनुतं लोचने! रोचनत्वं, संसारेऽस्मिन्नसारे फलमिति भवतां जन्मनो मुख्यमेव।।
प्रमोदमासाद्य गुणै: परेषां, येषां मतिर्मज्जति साम्यसिन्धौ। देदीप्यते तेषु मन:प्रसादो, गुणास्तथैते विशदीभवन्ति।।
विनय! विभावय गुणपरितोषं, निजसुकृताप्तवरेषु परेषु। परिहर दूरं मत्सरदोषं, विनय! विभावय गुणपरितोषम्।।
दिष्ट्याऽयं वितरति बहुदानं, वरमयमिह लभते बहुमानम्। किमिति न विमृशसि परपरभागं, यद्विभजसि तत्सुकृतविभागम्।।
येषां मन इह विगतविकारं, ये विदधति भुवि जगदुपकारम्। तेषां वयमुचिताचरितानां, नाम जपामो वारं वारम्।।
अहह! तितिक्षागुणमसमानं, पश्यत भगवति मुक्तिनिदानम्। येन रुषा सह लसदऽभिमानं, झटिति विघटते कर्मवितानम्।।
अदधु: केचन शीलमुदारं, गृहिणोऽपि परिहतपरदारम्। यश इह सम्प्रत्यपि शुचि तेषां, विलसति फलिताऽफलसहकारम्।।
या वनिता अपि यशसा साकं कुलयुगलं विदधति सुपताकम्। तासां सुचरितसञ्चितराकं, दर्शनमपि कृतसुकृतविपाकम्।।
तात्तिवक-सात्तिवक-सुजन-वतंसा:, केचन युक्तिविवेचनहंसा:। अलमकृषत किल भूवनाभोगं, स्मरणममीषां कृतशुभयोगम्।।
इति परगुणपरिभावनसारं, सफलय सततं निजमवतारम्। कुरु सुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम्।८।।
प्रथममशनपानप्राप्तिवाञ्छाविहस्ता— स्तदनु वसनवेश्माऽलङ्कृतिव्यग्रचित्ता:। परिणयनमपत्याऽवाप्तिमिष्टेन्द्रियाऽर्थान्,। सततमभिलषन्त: स्वस्थतां क्वाऽश्नुवीरन्?।।
उपायानां लक्षै: कथमपि समासाद्य विभवं, भवाऽभ्यासात् तत्र ध्रुवमिति निबध्नाति हृदयम्। अथाऽकस्मादस्मिन् विकिरति रज: क्रूरहृदयो, रिपुर्वा रोगो वा भयमुत जरा मृत्युरथवा।।
स्पर्धन्ते केऽपि केचिद् दधति हृदि मिथो मत्सरं क्रोधदग्धा:, युध्यन्ते केऽप्यरुद्धा धनयुवतिपशुक्षेत्रपद्रादिहेतो:। केचिल्लोभाल्लभन्ते विपदमनुपदं दूरदेशानटन्त:, किं कुर्म: किं वदामो भृशमरतिशतैर्व्याकुलं विश्वमेतत्।।
स्वयं खनन्त: स्वकरेण गर्ता, मध्ये स्वयं तत्र तथा पतन्ति। यथा ततो निष्क्रमणं तु दूरेऽधोऽध: प्रपाताद् विरमन्ति नैव।।
प्रकल्प्य यन्नास्तिकतादिवादमेवं प्रमादं परिशीलयन्त:। मग्ना निगोदादिषु दोषदग्धा: दुरन्तदु:खानि हहा! सहन्ते।।
श्रृण्वन्ति ये नैव हितोपदेशं, न धर्मलेशं मनसा स्मरन्ति। रुज: कथङ्कारमथाऽपनेयास्तेषामुपायस्त्वयमेक एव।।
परदु:खप्रतीकारमेवं ध्यायन्ति ये हृदि। लभन्ते निर्विकारं ते, सुखमायतिसुन्दरम्।।
सुजना! भजत मुदा भगवन्तं, सुजना! भजत मुदा भगवन्तम्। शरणागतजनमिह निष्कारणकरुणावन्तमवन्तं रे!।।
क्षणमुपधाय मन: स्थिरतायां, पिबत जिनागमसारम्। कापथघटनाविकृतविचारं, त्यजत कृतान्तमसारं रे!।।
परिहरणीयो गुरुरविवेकी भ्रमयति यो मतिमन्दम्। सुगुरुवच: सकृदपि परिपीतं, प्रथयति परमानन्दं रे!।।
कुमततमोभरमीलितनयनं किमु पृच्छत पन्थानम्। दधिबुद्धया नर! जलमंथन्यां, किमु निदधल मंथानं रे!।।
अनिरुद्धं मन एव जनानां, जनयति विविधातङ्कम्। सपदि सुखानि तदेव विधत्ते आत्माराममशङ्कं रे!।।
परिहरताश्रवविकथागौरव-मदनमनादिवयस्यम्। क्रियतां सांवरसाप्तपदीनं, धुवमिदमेव रहस्यं रे!।।
सह्यत इह किं भवकान्तारे, गदनिकुरंबमपारम्। अनुसरताहितजगदुपकारं, जिनपतिमगदंकारं रे!।।
श्रृणुतैकं विनयोदितवचनं नियताऽऽयतिहितरचनम्। रचयत सुकृतसुखशतसंधानं, शान्तसुधारसपानं रे!।।
श्रान्ता यस्मिन् विश्रमं संश्रयन्ते, रुग्णा: प्रीतिं यत्समासाद्य सद्य:। लभ्यं रागद्देषिविद्वेषिरोधा— दौदासीन्यं सर्वदा तत्प्रियं न:।।
लोके लोका भिन्नभिन्नस्वरूपा, भिन्नै:र्भिन्नै: कर्मभिर्मर्मभिद्भि:। रम्याऽम्यैश्चेष्टित: कस्य कस्य तद्विद्वद्भि: तुष्यते रुष्यते वा।।
मिथ्यां शंसन् वीरतीर्थेश्वरेण, रोद्धुं शेके न स्वशिष्यो जमालि:। अन्य: को वा रोत्स्यते केन पापात्, तस्मादौदासीन्यमेवात्मनीनम्।।
अर्हन्तोऽपि प्राज्यशक्तिस्पृश: किं, धर्मोद्योगं कारयेयु: प्रसह्य। दद्यु: शुद्धं किन्तु धर्मोपदेशं, यत्कुर्वाणा दुस्तरं निस्तरन्ति।।
तस्मादौदासीन्यपीयूषसारं, वारं वारं हन्त सन्तो लिहन्तु। आनन्दानामुत्तरङ्गत्रंगै— जीवद्भिर्यद् भुज्यते मुक्तिसौख्यम्।।
अनुभव विनय! सदा सुखमनुभव औदासीन्यमुदारं रे! कुशलसमागममागमसारं, कामितफलमन्दारं रे!।।
परिहर परचिन्तापरिवारं, चिन्तय निजमधिकार रे! तव किं कोऽपि चिनोति करीरं, चिनुतेऽन्य: सहकारं रे।।
योऽपि न सहते हितमुपदेशं तदुपरि मा कुरु कोपं रे! निष्फलया किं परजंनतप्त्या, कुरुषे निजसुखलोपं रे!।।
सूत्रमपास्य जडा भाषन्ते, केचन मतमुत्सूत्रं रे! किं कुर्मस्ते परिहतपयसो, यदि पीयन्ते मूत्रं रे!।।
पश्यसि किं न मन:परिणामं, निजनिजगत्यनुसारं रे! येन जनेन यथा भवितव्यं, तद् भवता दुर्वारं रे!।।
रमय हृदा हृदयङ्गमसमतां, संवृणु मायाजालं रे! वृथा वहसि पुद्गलपरवशतामायु: परिमितकालं रे!।।
अनुपमतीर्थमिदं स्मर चेतन-मन्त:स्थितमभिरामं रे! चिरंजीव! विशदपरिणामं, लभसे सुखमविरामं रे!।।
परब्रह्मपरिणामनिदानं, स्फुटकेवलविज्ञानं रे! विरचय विनय! विवेचितगानं, शान्तसुधारसपानं रे!।।
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने।