सद्दर्शनं जिनं नत्वा वीरं स्याद्वादेशकम्। सर्वदर्शनवाच्योऽर्थ: संक्षेपेण निगद्यते।।
षड्दर्शन-समुच्चय:
दर्शनानि षडेवात्र मूलभेदव्यपेक्ष्या। देवतातत्वभेदेन ज्ञातव्यानि मनीषिभि:।।
बौद्धं नैयायिकं सांख्यां जैनं वैशेषिकं तथा। जैमिनीयं च नामानि दर्शनानाममून्यहो।।
तत्र बौद्धमते तावद्देवता सुगत: किल। चतुर्णामार्यसत्यानां दु:खादीनां प्ररूपक:।।
दु:खं संसारिण: स्कन्धास्ते च पंच प्रकीर्तिता: विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च।।
समुदेति यतो लोके रागादीनां गणोऽखिलं:। आत्मात्मीयस्वभावाख्य: समुदय: स सम्मत:।।
क्षणिका: सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते।।
पंचेन्द्रियाणि शब्दाद्या विषया: पंच मानसम्। धर्मायतनमेतानि द्वादशायनानि च।।
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने। प्रत्यक्षमनुमानं च सम्यञज्ञानं द्विधा यत:।।
प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम्। त्रिरूपाल्लिङ्गतो लिङ्गज्ञानं त्वनुमानसंज्ञितम्।।
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यताम्।।
बौद्धराद्धन्तवाच्यस्य संश्षेपोऽयं निवेदित:। नैयायिकमतस्येत कथ्यमानो निशम्यताम्।।
अक्षपादमते देव: सृष्टिसंहारकृच्छिव:। विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रय:।।
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा। प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम्।।
दृष्टान्तोऽप्यय सिद्धान्तोऽवयवास्तर्कनिर्णयौ। वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च।।
जातयो निग्रहस्थानान्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतु: स्यात् प्रमाणं तच्चतुर्विधम्।।
प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा। तत्रेन्द्रियार्थसम्पर्कोत्पन्नमव्यभिचारि च।।
व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम्। प्रत्यक्षमनुमानं ततु तत्पूर्वं त्रिविधं भवेत्।।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा। तत्राद्यं कारणात्कार्यमनुमानमिहोदितम्।।
रोलम्बगवलव्यालतमालमलिनत्विष:। वृष्टिं व्यभिचरन्तीह नैवंप्राया: पयोमुच:।।
कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम्। तथाविधनदीपूरान्मेघो वृष्टो यथोपरि।।
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका। पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा।।
प्रसिद्धवस्तुसाधम्यदप्रसिद्धस्य साधनम्। उपमानं समाख्यातं यथा गौर्गवयस्तथा।।
शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम्। प्रमेयं त्वात्मदेहाद्यं बुद्धीन्द्रियसुखादि च।।
किमेतदिति सन्दिग्धप्रत्यय: संशयो मत:। प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम्।।
दृष्टान्तस्तु. भवेद्वेष विवादविषयो न य:। सिद्धान्तस्तु चचतुर्भेद: सर्वतन्त्रादिभेदत:।।
प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा। अवयवा: पञ्च तर्क: सन्देहोपरमो भवेत्।।
यथा काकादिसम्पातात् स्थाणुना भाव्यमत्र हि। ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मत:।।
आचार्यशिष्ययो: पक्षप्रतिपक्षपरिग्रहात्। या कथाऽभ्यासहेतु: स्यादसौ वाद उदाहृत:।।
विजिगीषुकथा या तु छलजात्यादिदूषणा। स जल्प: सा वितण्डा तु या प्रतिपक्षवर्जिता।।
हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदक:। जातयो दूषणाभासा: पक्षादिर्दूष्यते न यै:।।
निग्रहस्थानमाख्यातं परो येन निगृह्यते। प्रतिज्ञाहानिसन्न्यासविरोधादिविभेदत:।।
नैयायिकमतस्यैष समास: कथितोऽधुना। सांख्याभिमतभावानामिदानीमयमुच्यते।।
सांख्या निरीशवरा: केचित्केचिदीश्वरदेवता:। सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशति:।।
सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम्। प्रसादतापदैन्यादिकार्यलिङ्ग क्रमेण तत्।।
एतेषां या समावस्था सा प्रकृति: किलोच्यते। प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका।।
तत: सञ्जायते बुद्धिर्महानिति यकोच्यते। अहङ्कारस्ततोऽपि स्यात्तस्मात्षोडशको गण:।।
स्पर्शनं रसनं घ्राणं चक्षु: श्रोत्रं च पञ्चमम्। पञ्च बुद्धीन्द्रियाण्यत्र तथा कर्मेन्द्रियाणि च।।
पायूपस्थवच: पाणिपादाख्यानि मनस्तथा। अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश।।
रूपात्तेजो रसादापो गन्धाद् भूमि: स्वरान्नभ:। स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम्।।
एवं चतुर्विशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम्। अन्यस्त्वकर्ताविगुणस्तु भोक्ता तत्तवंपुमान्नित्यचिदभ्युपेत:।।
पञ्चविंशतितत्त्वानि सांख्यस्यैवं भवन्ति च। प्रधाननरयोश्चात्र वृत्ति: पङ्ग्वन्धयोरिव।।
प्रकृतिवियोगो मोक्ष: पुरुषस्य बतैतदन्तरज्ञानात्। मानं त्रितयं चात्र प्रत्यक्षं लैङ्गिकं शाब्दम्।।
एवं सांख्यमतस्यापि समासो गदितोऽधुना। जैनदर्शनसंक्षेप: कथ्यते सुविचारवान्।।
जिनेन्द्रो देवता तत्र रागद्वेषविवर्जित:। हतमोहमहामल्ल: केवलज्ञानदर्शन:।।
सुरासुरेन्द्रसम्पूज्य: सद्भूतार्थोपदेशक:। कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्त: परमं पदम्।।
जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ। बन्धो विनिर्जरामोक्षौ नव तत्त्वानि तन्मते।।
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभं कर्म कर्ता भोक्ता कर्मफलस्य च।।
चैतन्यलक्षणो जीवो यश्चैतद्विपरीतवान्। अजीव: स समाख्यात: पुण्यं सत्कर्मपुद्गला:।।
पापं तद्विपरीतन्तु मिथ्यात्ताद्यास्तु हेतव:। यो बन्धस्य स विज्ञेय आश्रवो जिनशासने।।
संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मण:। अन्योन्यानुगमात्मा तु य: सम्बन्धो द्वयोरपि।।
बद्धस्य कर्मण: शाटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेमोक्ष उच्यते।।
एतानि नव तत्त्वानि य: श्रद्धत्ते स्थिराशय:। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता।।
तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत्। सम्यगज्ञानक्रियायोगाज्जायते मोक्षमाजनम्।।
प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते। अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह।।
अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम्। प्रत्यक्षमितरज् ज्ञेयं परोक्षं ग्रहणेक्षया।।
येनोत्पादव्ययभ्रौव्ययुक्तं यत् तत् सदिष्यते। अनन्तधर्मकं वस्तु तेनोक्तं मानगोचर:।।
जैनदर्शनसंक्षेप इत्येष-कथितोऽनघ:। पूर्वापरपराधातो यत्र क्वापि न विद्यते।।
देवताविषये भेदो नास्ति नैयायिकै: समम्। वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदर्श्यते।।
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम्। विशेषसमवायौ च तत्त्वषट्कं हि तन्मते।।
तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि। कालदिगात्ममनांसि च, गुणा: पुन: पञ्चविंशतिधा।।
स्पर्शरसरूपगन्धा: शब्द: संख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च।।
बुद्धि: सुखदु:खेच्छा धर्माधर्मौ प्रयत्नसंस्कारौ। देष: स्नेहगुरुत्वे द्रवत्ववेगो गुणा एते।।
उत्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम्। पञ्चविधं कर्मैतत् परापरे द्वे तु सामान्ये।।
तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु। निशचयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्ट:।।
य इहायुतसिद्धानामाधाराधेयभूतभावानाम्। सम्बन्ध इहप्रत्यहेतु: स हि भवति समवाय:।।
प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिकं तथा। वैशेषिकमतस्यैवं संक्षेप: परिकीर्त्तित:।।
जैमिनीया: पुन: प्राहु: सर्वज्ञादिविशेषण:। देवो न विद्यते कोऽपि यस्य मानं वचो भवेत्।।
तस्मादतीन्द्रियार्थानां साक्षात् द्रष्टुरभावत:। नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चय:।।
अत एव पुरा कार्यों वेदपाठ: प्रयत्न:। ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी।।
नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति। प्रवर्तकं वच: प्राहु: स्व:कामोऽग्नि यथा यजेत्।।
प्रत्यक्षमनुमानं च शाब्दं चोपमया सह। अर्थपत्तिरभावश्च षट् प्रमाणानि जैमिने:।।
तत्र प्रत्यक्षमक्षाणां सम्प्रयोगे सतां सति। आत्मानो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुन:।।
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्त्तितम्। प्रसिद्धार्थस्य साधम्यदप्रसिद्धस्य साधनम्।।
दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना। क्रियते यदूबलेनासावर्थापत्तिरुदाहता।।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्ताऽवबोधार्थ: तत्राभावप्रमाणता।।
जैमिनीयमतस्यापि संक्षेपोऽयं निवेदित:। एवमास्तिकवादानां कृतं संध्षेपकीर्ततनम्।।
नैयायिकमतादन्ये भेदं वैशेषिकै: सह। न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिन:।।
षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल। लोकायतमतक्षेपात् कथ्यते तेन तन्मतम्।।
लोकायता वदन्त्येवं नास्ति जीवो न निर्वृति:। धर्माधर्मौ न विद्येते न फलं पुण्यपापयो:।।
एतावानेव लोकोऽयं यावानिन्द्रियगोचर:। भद्रे! वृकपदं पश्य यद्वदन्त्यबहुश्रुता:।।
पिब खाद च चारुलोचने! यदतीतं वरगात्रि! तन्न ते। न हि भीरु! गतं निवर्तते समुदयमात्रमिदं कलेवरम्।।
पृथ्वी जलं तथा तेजो वायुर्भूतचतुष्टयम्। चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि।।
पृथिव्यादिभूतसंहत्यां तथा देहादिसम्भव:। मदशक्ति: सुराङ्गेभ्यो यद्वत्तद्वत् चिदात्मनि।।
तस्माद् दृष्टपरित्यागाद् यददृष्टे प्रवर्तनम्। लोकस्य तद्विमूढत्वं चार्वाका: प्रतिपेदिरे।।
साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने। निरर्था सा मते तेषां धर्म: कामात् परो न हि।।
लोकायतमतेऽप्येवं संक्षेपोऽयं निवेदित:। अभिधेयतातपर्यार्थ: पर्यालोच्य: सुबुद्धिभि:।।