सिन्दूरप्रकरस्तप:'करिशिर:क्रोडे कषायाटवी— दावार्चिर्निचय: प्रबोधदिवसप्रारम्भसूर्योदय:। मुक्तिस्त्रीवदनैककुङ्कमरस: श्रेयस्तरो: पल्लव— प्रोल्लास: क्रमयोर्नखद्युतिभर: पार्श्वप्रभो: पातु व:।।
सिन्दूरप्रकर:
सन्त: सन्तु मम प्रसन्नमनसो वाचां विचारोद्यता:, सूतेऽम्भ: कमलानि तत्परिमलं वाता वितन्वन्ति यद्। किंवाऽभ्यर्थनयाऽनया यदि गुणोऽस्त्यासां ततस्ते स्वयं, कर्त्तार: प्रथनं न चेदथ यश:प्रत्यर्थिना तेन किम्।।
धर्मस्य प्राधान्यम् त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य। तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ।।
य: प्राप्य दुष्प्रापमिदं नरत्वं, धर्मं न यलेन करोति मूढ:। क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणिं पातयति प्रमादात्।।
स्वर्णस्थाले क्षिपति स रज: पादशौचं विधत्ते, पीयूषेण 'प्रवरकरिणं वाहयत्येधभारम्। चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थमू यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्त:।।
ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्ममपास्य काचशकलं स्वीकुर्वते ते जडा:। विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं, ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया।।
अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म य: कुर्यादिषयसुखतृष्णातरलित:। ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते।।
भवित तीर्थकरे गुरौ जिनमते सङ्गे 'च हिंसानृत— स्तेयाब्रह्मपरिग्रहव्युपरमं ऋधाद्यरीणां जयम्। सौजन्यं गुणिसङ्गमिन्द्रियदम दानं तपोभावनां वैराग्यं च कुरुष्वं निर्वृतिपदे यद्यस्ति गन्तुं मन:।।
पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं, पुण्यं सञ्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम्। सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यश: स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चार्हतां निर्मिता।।
स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादि-गुणावलिर्विलसति स्वैरं वपुर्वेश्मनि। संसार: सुतर: शिवं करतलक्रोडे लुठत्यञ्जसा, य: श्रद्धाभरभाजनं जिनपते: पूजां विधत्ते जन:।।
कदाचिन्नातङ्ग: कुपित इव पश्यत्यभिमुखं, विदूरे दारिद्रयं चकितमिव नश्यत्यनुदिनम्। विरक्ता कान्तेव त्यजति कुंगति: सङ्गमुदयो, न मुञ्चत्यभ्यर्णं सुहृदिव जिनार्चां रचयत:।।
य: पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनै: सोऽर्च्यते, यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते। यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते, यस्तं ध्यायति क्लृप्तकर्मनिधन: स ध्यायते योगिभि:।।
अवद्यमुक्ते पथि य: प्रवर्तति, प्रवर्तयत्यन्यजनं च नि:स्पृह:। स एव सेव्य: स्वहितैषिणा गुरु: स्वयं तरंस्तारयितुं क्षम: परम्।।
विदलयति कुबोधं बोधयत्यागमार्थं, सुगतिकुगतिमारर्गौ पुण्यपापे व्यनक्ति। अवगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित्।।
पिता माता भ्राता प्रियसहचरी सूनुनिवह:, सुह्रत्स्वामी माद्यत्करिभटरथाश्व: परिकर:। निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं, गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न पर:।।
किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभि: कृतं, पूर्ण भावनयालमिन्द्रियदमैं: पर्याप्तमाप्तागमै:। किंत्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरो: शासनं, सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणा:।।
न देवं नादेवं न शुभगुरुमेवं न कुगुरुं, न धर्म नाधर्मं न गुणपरिणद्धं न विगुणम्। न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विलोकन्ते लोका जिनवचनकक्षुर्विरहिता:।।
मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो— निर्माणं गुणदोषभेदकलनां तेषामसम्भाविनीम्। दुर्वारं नरकान्धकूपपतनं मुक्ति बुधा दुर्लभां, सार्वज्ञ: समयो दयारसमयो येषां न कर्णातिथि:।।
पीयूषं विषवज्जलं ज्चलनवत्तेजस्तमस्तोमव— न्मित्रं शात्रववत्त्रजं भुजगवच्चिन्तामणिं लोष्ठवत्। ज्योत्स्नां ग्रीष्मजघर्मवत् स मनुते कारुण्यपण्यापणं, जैनेन्द्र मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते।।
धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं, भिन्ते मत्सरमुच्छिनत्ति कुनयं मथ्नाति मिथ्यामतिम्। वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य— त्तज्जैनं मतमर्चति प्रथयति ध्यायत्यधीते कृती।।
रत्नानामिव रोहणक्षितिधर: खं तारकाणामिव, स्वर्ग: कल्पमहीरुहामिव सर: पङ्केरहाणामिव। पाथोधि: पयसामिवेन्दुमहसां स्थानं गुणानामसा— वित्यालोच्य विरच्यतां भगवत: सङ्घस्य पूजाविधि:।।
य: संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थं कथयन्ति पावनतया येनास्ति नान्य: सम:। यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फू्तिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोऽर्च्यताम्।।
लक्ष्मीस्तं स्वयमभ्युपैति रभसा कीर्तिस्तमालिङ्गते, प्रीतिस्तं भजते मति: प्रयतते तं लब्धुमुत्कण्ठया। स्व:श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, य: सङ्घं गुणराशिकेलिसदनं श्रेयोरुचि: सेवते।।
यदूभक्ते: फलमर्हदादिपदवी मुख्यं कृषे: सस्यव च्चक्रित्वत्रिदशेन्द्रतादि तृणवत्रासङ्गिकं गीयते। शिति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पते: संङ्ग:सोऽघहर: पुनातु चरणन्यासै: सतां मन्दिरम्।।
क्रीडाभू: सुकृतस्य दुष्कृतरज:संहारवात्या भवो— दन्वन्नौर्व्यसनाग्निमेधपटली सङ्केतदूती-श्रिय:। नि:श्रेणिस्त्रिदिवौकस: प्रियसखी मुक्ते: कुगत्यर्गला, सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषै: परै:।।
यदि ग्रावा तोये तरति तरणिर्यद्युदयति, प्रतीच्यां सप्तार्चिर्यदि भजति शैत्यं कथमपि। यदि क्ष्मापीठं स्यादुपरि सकलेस्यापि जगत:, प्रसूते सत्त्वानां तदपि न वध: क्वापि सुकृतम्।।
स कमलवनमग्नेर्वासरं भास्वदस्ता— दमृतमुरगवकत्रात् साधुवादं विवादात्। रुगपगममजीर्णाज्जीवितं कालकूटा— दभिलषति वधाद्य: प्राणिनां धर्ममिच्छेत्।।
आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम्। आरोग्यं विगतान्तरं त्रिजगति शलाघ्यत्वमल्पेतरं, संसाराम्बुनिधिं करोति सुतरं चेत: कृपाद्रन्तिरम्।।
विश्वासायतनं विपत्तिदलनं देवै: कृताराधनं, मुक्ते: पथ्यदनं जलाग्निशमन व्याघ्रोरगस्तम्भनम्। श्रेय:संवननं समृद्धिजननं सौजन्यसञ्जीवनं, कीर्ते:केलिवनं प्रभावभवनं सत्यं वच: पावनम्।।
यशो यस्माद् भस्मीभवति वनवहेरिव वनं, निदानं दु:खानां यदवनिरुहाणां जलमिव। न यत्र स्याच्छायाञतप इव तप:संयमकथा, कथञ्चित्तन्मिथ्यावचनमभिधत्ते न मतिमान्।।
असत्यमप्रत्ययमूलकारणं, कुवासनासद्म समृद्धिवारणम्। विपन्निदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम्।।
तस्याग्निर्जलमर्णव: स्थलमरिर्मित्रं सुरा: किङ्करा:, कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिर्मृग:। पातालं बिलमस्त्रमुत्पलदलं व्याल: शृगालो विषं, पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति य:।।
तमभिलषति सिद्धिस्तं वृणीते समृद्धि— स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्ति:। स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं, परिहरति विपत्तं यो न गृहात्यदत्तम्।।
अदत्तं नादत्ते कृतसुकृतकाम: किमपि य:, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले। विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे— र्विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम्।।
यन्निर्वर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम्। दौर्गत्यैकनिबन्धनं कृतसुगत्याश्लेषसंरोधनं, प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम्।।
परजनमन: पीडाक्रीडावनं वधभावना— भवनमवनीव्यापिव्यापल्लताघनमण्डलम्। कुगतिगमने मार्ग: स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकांक्षिणाम्।।
दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक— श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानल:। सङ्केत: सकलापदां शिवपुरद्वारे कपाटो दृढ़: शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणि:।।
व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधा: सान्निध्यमध्यासते। कीर्ति: स्फूर्तिमियर्ति यात्युपचयं धर्म: प्रणश्यत्यघं, स्वर्निर्वाणसुखानि सन्निदधते ये शीलमाबिभ्रते।।
हरति कुलकलङ्कं लुम्पते पापपङ्कं; सुकृतमुपचिनोति शलाघ्यतामातनोति। नमयति सुरवर्ग हन्ति . दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम्।।
तोयत्यग्निरपिं स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति, व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति। विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां— नाथोऽपि स्वंगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम्।।
कालुष्यं जनयन् जडस्य रचयन् धर्मुद्रुमोन्मूलनं, क्लिष्यन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वर्धयन्। मर्यादातटमुद्रुजन् शुभमनोहंसं प्रवासं दिशन् किं न क्लेशकर: परिग्रहनदीपूर: प्रवृद्धिं गत:।।
कलहकलभविन्ध्य: क्रोधगृघ्रश्मशानं, व्यसनभुजगरन्ध्रं देषदस्युप्रदोष:। सुकृतवनदवाग्निमर्दिवाम्भोदवायु— र्नयनलिनतुषारोऽत्यर्थमर्थानुराग:।।
प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभू:, पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम्। व्यक्षेपस्य निधिर्मदस्य सचिव: शोकस्य हेतु: कले:, केलिवेश्म परिग्रह: परिहतेर्योग्यो विविक्तात्मनाम्।।
वह्रिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि— स्तद्वन्मोहघनो घनैरपि धनैर्जन्तुर्न सन्तुष्यति। न त्वेवं मनुते विमुच्य विभवं-नि:शेषमन्यं भवं,। यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम्।।
यो मित्रं मधुनो विकारकरणे संत्राससम्पादने, सर्पस्य प्रतिबिम्बमङ्गदहने सप्तार्चिष: सोदर:। चैतन्यस्य निषूदने विषतरो: सब्रह्मचारी चिरं, स क्रोध: कुशलाभिलाषकुशलै: निर्मूलमुन्मूल्यताम्।।
फलति कलितश्रेय:श्रेणीप्रसूनपरम्पर: प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुम:। यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो— भजति लभते भस्मीभावं तदा विफलोदय:।।
सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय— त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम्। कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं, दत्ते य: कुगतिं स हातुमुचितो रोष: सदोष: सताम्।।
यो धर्मं दहति द्रुमं दव इवोन्मध्नाति नीतिं लतां, दन्तीवेन्दुकलां विधुन्तुद इव क्लिश्नाति कीर्ति नृणाम्। स्वार्थं वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं, तृष्णां घर्म इवोचित: कृतकृपालोप: स कोप: कथम्।।
यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां, यस्मिन् शिष्टाभिरुचितगुणग्रामनामापि नास्ति। यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं, तं मानाद्रिं परिहर दुरारोहमौचित्यवृत्ते!।।
शमालानं भञ्जन् विमलमतिनाडिं विघटयन् किरनुदुर्वाक्पासूत्करमगंणयन्नागमसृणिम्। भ्रमन्नु्व्यां स्वैरं विनयवनवीर्थि विदलय— ञ्जन: कं नानर्थं जनयति मदान्धो द्विप इव।।
'औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम्। कीर्तिं कैरविणी; मतङ्गज इव प्रोज्जासयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम्।।
मुष्णात य: कृतसमस्तसमीहितार्थं, सञ्जीवनं विनयजीवितमङ्गभाजाम्। जात्यादिमानविषजं विषमं विकारं, तं मार्दवामृतरसेन नयस्व शान्तिम्।।
कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्यां कुगतियुवतिमालां मोहमातङ्गशालाम्। शमकमलहिमानीं दुर्यशोराजधानीं, व्यसनशतसहायां दूरतो मुञ्च मायाम्।।
विधाय मायां विविधैरुपायै:, परस्य ये वञ्चनमाचरन्ति। ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखा: स्वमेव।।
मायामविश्वासविलासमन्दिरं, दुराशयो य: कुरुते धनाशया। सोऽनर्थसार्थं न पतन्तमीक्षते, यथा बिडालो लकुटं पय: पिबन्।।
मुग्धप्रतारणपरायणमुज्जिहीते, यत्पाटवं कपट्लम्पटचित्तवृत्ते:। जीर्यत्यपप्लवमवशयमिह्कृत्वा नापथ्यभोजनमिवामयमायतौ तत्।।
'यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृषिं कुर्वते। सेवन्ते कृपणं पतिं गजघटासङ्घट्टदु:सज्चरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम्।।
मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भव:, क्रोधग्नेररणि: प्रतापतरणिप्रच्छादने तोयद:। क्रीडासद्म कलेर्विवेकशशिन: स्वर्भाणुरापन्नदी— सिन्धु: कीर्तिलताकलापकलभो लोभ: पराभूयताम्।।
नि:शेषधर्मवनदाहविजृम्भमाणे, दु:खौघभस्मनि विसर्पदकीर्तिधूमे। बाढं धनेन्धनसमागमदीप्यमाने, लोभानले शलभतां लभते गुणौघ:।।
जात: कल्पतरु: पुर: सुरगवी तेषां प्रविष्टा गृहं, चिन्तारत्नमुपस्थितं करतले प्राप्तो निधि: सन्निधिम्। विश्वं वश्यमवश्यमेव सुलभा: स्वर्गापवर्गश्रिय:, ये सन्तोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते।।
वरं क्षिप्त: पाणि:. कुपितफणिनो वक्त्रकुहरे, वरं झम्पापातो ज्वलदनलकुण्डे विरचित:। वरं प्रासप्रान्त: सपदि जठरान्तर्विनिहितो, न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा।।
सौजन्यमेव विदधाति यशश्चयं च, स्वश्रेयसं च विभवं च. भवक्षयं च। दौर्जन्यमावहसि यत्कुमते! तदर्थ, धान्ये दवं दिशसि तज्जलसेकसाध्ये।।
वरं विभववन्ध्यता सुजनभावभाजां नृणा— मसाधुचरितार्जिता न पुनरूर्जिता: सम्पद:। कृशत्वमपि शोभते सहजमायतौ सुन्दरं, विपाकविरसा न तु श्वयथुसम्भवा स्थूलता।।
न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं, सन्तोषं वहते परद्धिषु पराबाधासु धत्ते शुचम्। स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्गय— त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम्।।
धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्त: पुमान्, काव्यं निष्प्रतिभस्तप: शमदयाशून्योऽल्पमेधा: श्रुतम्। वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ, य: सङ्गं गुणिनां विमुच्य विमति: कल्याणमाकांक्षति।।
हरति कुमतिं भिन्ते मोहं करोति विवेकितां, वितरति रतिं सूते नीतिं तनोति विनीतताम्। प्रथयति यशो धत्ते धर्म व्यपोहति दुर्गतिं, जनयति नृणां किं नाभीष्टं गुणोत्तमसङ्गम:।।
लब्धुं बुद्धिकलापमापदमपाकर्चु विहर्तुं पथि, प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम्। रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्चियं, चेत्त्वं चित्त! समीहसे गुणवतां सङ्गं तदङ्गीकुरु।।
हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे, द्विरदति दयारामे क्षेमक्षमाभृति वज्रति। समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु य:, किमभिलषता श्रेय: श्रेय: स निर्गुणसङ्गम:।।
आत्मानं कुपथेन निर्गमयितुं य: शूकलाश्वायते, कृत्याकृत्यविवेकजीवितहतौ य: कृष्णसर्पायते। य: पुण्यद्रुमखण्डखण्डनविधौ स्मफूर्जत्कुठारायते, तं लुप्तब्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव।।
प्रतिष्ठां यन्निष्ठा नयति नयनिष्ठां विघटय— त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते। विवेकस्योत्सेकं विदलयति दत्ते च विपदं,। पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे।।
धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता— मस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम्। श्रेय: पुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय— ब्रातं जेतुमवैति भस्मनि हुतं जानीत सर्वं तत:।।
धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा— लङ्कर्मीणमशर्मनिर्मितिकलापारीणमेकान्तत: सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टे यथा— कामीनं कुपथाध्वनीनमजयन्नक्षौघमक्षेमभाक्।।
निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते, चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम्। चापल्यं चपलेव चुम्बति दवज्चालेव तृष्णां नय— त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति।।
दायादा: स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो, गृहन्तिच्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात्। अम्भ: प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठाद्, दुर्वृ्तास्तनया नयन्ति निधनं धिग्बह्दधीनं धनम्।।
नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नतिं, शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चै: गुणोत्कीर्तनम्। निर्वेदं न विदन्ति किञ्चिदकृतज्ञस्यापि सेवाक्रमे, कष्टं किं नमनस्विनोऽपि मनुजा: कुर्वन्ति वित्तार्थिन:।।
लक्ष्मी: सर्पति नीचमर्णवपय:सङ्गादिवाम्भोजिनी— संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम्। चैतन्यं विषसन्निधेरिव नृणामुज्जासयत्यञ्जसा, धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्या: फलम्।।
चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं, पुष्णाति प्रशमं तप: प्रबलयत्युल्लासयत्यागमम्। पुण्यं कन्दलयत्यघं दलयति स्वर्गं ददाति क्रमा— न्निर्वाणश्चियमातनोति निहितं पात्रे पवित्रं धनम्।।
दरिद्रयं न तमीक्षते न भजते दौर्गत्यमालम्बते, नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति। दैन्यं नाद्रियते दुनोति न दर: क्लिश्नन्ति नैवापद:, पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम्।।
लक्ष्मी: कामयते मतिर्मृगयते कीर्तिस्तमालोकते, प्रीतिश्चुम्बति सेवते सुभगता नीरोगतालिङ्गति। श्रेय: संहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति— र्मुक्तिर्वांच्छति य: प्रयच्छति पुमान् पुण्यार्थमर्थ निजम्।।
'तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्री:, स्निग्धा बुद्धि: परिचयपरा चक्रवर्तित्वऋद्धि:। पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसम्पत् सप्तक्षेत्र्यां वपति विपुलं वित्तबीजं निजं य:।।
पात्रे धर्मनिबन्धनं तदितरे श्रेष्ठं दयाख्यापकं, मित्रे प्रीतिविवर्धनं तदितरे वैरापहारक्षमम्। भृत्ये भक्ति-भरावहं नरपतौ सम्मानसत्पादकं, भट्टादौ सुयशस्करं वितरणं न क्वाप्यहो निष्फलम्।।
यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल— ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम्। यत्प्रत्यूहतम: समूहदिवसं यल्लब्धिलक्ष्मीलता— मूलं तद्विविधं यथाविधि तप: कुर्वीत वीतस्पृह:।।
यस्माद्विघ्नपरम्परा पवघटते दास्यं सुरा: कुर्वते, काम: शाम्यति दाम्यतीन्द्रियगण: कल्याणमुत्सर्पति। उन्मीलन्ति महर्द्धय: कलयति ध्वंसं च यत् कर्मणां, स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यंतपस्तन्न किम्।।
कान्तारं न यथेतरो ज्वलयितु दक्षो दवाग्नि विना, दावाग्नि न यथापर: शमयितुं शक्तो विनाम्भोधरम्। निष्णात: पवनं बिना निरसितुं नान्यो यथाम्भोधरम्, कमौघं तपसा विना किमपरो हन्तुं समर्थस्तथा।।
सन्तोषस्थूलमूल: प्रशमपरिकरस्कन्धबन्धप्रपञ्च:, पञ्चाक्षीरोधशाख: स्फुरदभयदल: शीलसम्पत्प्रवाल:। श्द्धाम्भ:पूरसेकादिपुलकुलबलैश्वर्यसौन्दर्यभोग— स्वर्गादिप्राप्तिपुष्प: शिवपदफलद: स्यात्तप: पादपोऽयम्।।
नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभो:, सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि। विश्वग्वर्षमिवोषरक्षितितले दानार्हदर्चातप:, स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम्।।
सर्वं ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं भित्सति, क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सते। कल्याणोपचयं चिकीर्षति भवाम्बोधेस्तटं लिप्सते, मुक्तिस्तरीं परिरिप्सते यदि जनस्तद् भावयेद् भावनाम्।। च विवेकवनसारिणिं प्रशमशर्मसंजीवनीं, भवार्णवमहातरीं मदनदावमेघावलीम्। चलाक्षमृगवागुरां गुरुकषायशैलाशनिं, विमुक्तिपथवेसरी भजत भावनां किं परै:?।।
घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत्। तपस्तीव्रं तप्तं चरणमपि चीर्ण चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम्।।
यदशुभरज: पाथो दृतेन्द्रियद्विरदाङ्कशं, कुशलकुसुमोद्यानं माद्यन्मन:कपिशङ्खला। विरतिरमणीलीलावेशम स्मरज्चरभेषजं, शिवपथरथस्तद् वैराग्यं विमृश्य भवाभय:।।
चण्डानिल: स्फुरितमब्दचयं दवार्चि— र्वृक्षव्रजं तिमिरमण्डलमर्कबिम्बम्। वज्रं महीध्रनिवहं नयते यथान्तं, वैराग्यमेकमपि कर्म तथा समग्रम्।।
नमस्या देवानां चरणवरिवस्या शुभगुरो— स्तपस्या नि:सीमक्लमपदमुपास्या गुणवताम्। निषद्यारण्ये स्यात् करणदमविद्या च शिवदा, विराग: क्रूराग: क्षपणनिपुणोन्त: स्फुरति चेत्।।
भोगान् कृष्णभुजङ्गभोगविषमान् राज्यं रज:सन्निभं, बन्धून् बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम्। भूतिं भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यज— न्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्त: पुमान्।।
बजिनेनद्रपूजा गुरुपर्युपास्ति:, सत्त्वानुकम्पा शुभपात्रदानम् गुणानुराग: श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि।।
त्रिसन्ध्यं देवार्चां विरचय चयं प्रापय यश:, श्रिय: पात्रे वापं जनय नयमार्ग नय मन:। स्मरक्रोधाद्यारीन् दलय कलय प्राणिषु दयां, जिनोक्तं सिद्धान्तं श्रृणु वृणु जवान्मुक्तिकमलाम्।।
कृत्वार्हतूपदपूजनं यतिजनं नत्वा विदित्वागमं, हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम्। गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं, स्मृत्वा पञ्चनमस्त्रियां कुरु करक्रोडस्थमिष्टं सुखम्।।
प्रसरति यथा कीतिर्दिक्षु क्षपाकरसोदरा— भ्युदयजननी याति स्फीतिं यथा गुणसन्तति:। कलयति यथा वृद्धि धर्म: कुकर्महतिक्षम:, कुशलसुलभे न्याय्ये कार्यं तथा पथि वर्तनम्।।
करे श्लाघ्यस्त्याग: शिरसि गुरुपादप्रणमन, मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयो:। हृदि स्वच्छावृत्तिर्विजयि भुजयो: पौरुषमहो, विनाप्यैश्वर्येण प्रंकृतिमहतां मण्डनमिदम्।।
भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीं, तदानीं माकार्षीर्विषयविषवृक्षेषु वसतिम्। यतश्छायाप्येषा प्रथयति महामोहमचिरा— दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति।।
सोमप्रभाचार्यमभा च यन्न, पुंसां तम: पङ्कमपाकरोति। तदप्यमुष्मिन्नुपदेशलेशे, निशम्यमाने निशमेति नाशम्।।
अभजदजितदेवाचार्यपट्टोदयाद्रि— द्युमणिविजयसिंहाचार्यपादारविन्दे। मधुकरसमतां यस्तेन सोमप्रभेण, व्यरचि मुनिपनेत्रा सूक्तिमुक्तावलीयम्।।