मंगलं भगवान वीरो, मंगलं गौतमो गणी । मंगलं स्थूलभद्राद्याः, जैनधर्मोऽस्तु मंगलम् ।।
मंगल-स्तोत्र
मंगलं मतिमान् भिक्षुः, मंगलं भारमल्लकः, मंगलं रायचन्द्राद्याः, मंगलं तुलसी गुरुः । महाप्रज्ञोऽस्तु मंगलं, महाश्रमणोऽस्तु मंगलम्, तेरापन्थोऽस्तु मंगलम् ।।
सर्व—मंगल—मांगल्यं, सर्व—कल्याणकारकम् । प्रधानं सर्वधर्माणां, जैनं जयतु शासनम् ।।
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ।।
अर्हन्तो भगवन्त इन्द्र—महिताः सिद्धाश्च सिद्धि—स्थिताः । आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्रीसिद्धान्त—सुपाठका मुनिवरा, रत्न—त्रयाराधकाः । पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु नो मंगलम् ।।
ब्राह्मी चन्दनबालिका, भगवती राजीमती, द्रौपदी । कौशल्या च मृगावती च सुलसा, सीता सुभद्रा शिवा ।।
कुन्ती शीलवती नलस्य दयिता, चूला प्रभावत्यपि । पद्मावत्यपि सुन्दरी प्रतिदिनं, कुर्वन्तु नो मंगलम् ।।
विघ्नहरण मंगल करण, स्वाम भिक्षु नो नाम । गुण ओळख समरण कियां, सरै अचिंत्या काम ।।
भि. भा. रा. ज. म. मा. डा. का. तु. । महाप्रज्ञ महाश्रमण पुनातु ।।
अरहंते सिद्धे साहू, धम्मं सरणं सुपवज्जामि । विघनहरण मंगलमय तेरा, स्मरण सदा अन्तर्यामी ।।
अमृत—कोदर—रामसुख, पीथल—मोती—हीर । भीम—दीप—सुख—श्यामजी, भिक्खू—सिख—बड़वीर ।।
दर्शन ज्ञान चरित्रमय, तीन रतन अनमोल । इष्ट देव गुरु धर्ममय, तुलसी तत्त्व अतोल ।।