मुख्य सामग्री पर जाएँ
‹ स्तोत्र

श्री मंत्राधिराज स्तोत्र

परंपरागत

1

सर्वातिशय सम्पूर्णान् ध्यात्वा सर्वजिनाधिपान् पंच वर्णान् पंच रूपान् विषयद्रुमकुञ्जरान् ।।१ चतुर्गात्रांश्‍चतुर्वक्त्रान् चतुर्विंशतिसञ्ज्ञ‍ितान् जैनीं सर्वाङ्गेषु रक्षां कुर्वे दुःखौघ नाशिनीम् ।।२ शिरो मे वृषभः पातु भालं श्रीअजितः प्रभुः पातां में श्रीजिनौ नेत्रे सम्भवश्‍चाभिनन्दनः ।।३ सुमतिः सुसीम जन्मा च श्रवणौ मम रक्षताम् सुपार्श्‍वो रक्षतु घ्राणं मुखं चन्द्रप्रभः प्रभुः ।।४ रसनां सुविधिः पातु कण्ठं श्रीशीतलो जिनः स्कन्धं श्रेयांसः श्रीवासुपूज्यश्‍च विमलो भुजौ ।।५ अनन्तश्रीधर्मनाथौ पातां मे करपल्लवौ शान्तिर्मे हृदयं रक्षेन्मध्यं नाभिं च कुंथ्वरौ ।।६ मल्लिः कटीं सक्थिनी च रक्षतान्‍मुनिसुव्रतः नमिर्जानुद्वयं पायान्नेमिर्जङ्घाद्वयं पुनः ।।७ श्रीपार्श्‍वो वर्धमानश्‍च रक्षतान्मे पदद्वयम् चतुर्विंशतिरूपोऽव्यादर्हन्मे सकलं वपुः ।।८ एतां जिन बलोपेतां रक्षां यः सुकृती पठेत् स चिरायुः सुखी पुत्री निर्व्याधिर्विजयी भवेत् ।।६